सामग्री पर जाएँ
सर्वकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 270, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 270

Appendix.
कुम्भकर्णनृपतिः करप्रदं डिंडुआणलवणाकरं व्यधात् ।
यन्नराणनगरीरणांगणे सस्पृहं विवृणुते जयश्रियः ॥ ६ ॥
विजित्य सकलं राज्यमादाय सकलां श्रियं ।
मुदाफरमदच्छेदमकार्षीत्कुम्भभूपतिः ॥ ७ ॥
महामुनिश्रेष्ठवशिष्ठयोगपवित्रचित्रानलकुण्डशोधि ।
असौ महौजाः प्रवरं वसंतपुरं व्यधत्ताभिनवो वसंतः ॥ ८ ॥
सप्तसागरविजित्वरानसौ सप्तपल्वलरानकारयत् ।
श्रीवसंतपुरनाम्नि चक्रिणः प्रीतये वसुमतीपुरंदरः ॥ ६ ॥
अमराधिपप्रतिमवैभवो नृपो गिरिदुर्गराजमधिकुम्भमण्डपं ।
स्फुरदेकलिङ्गनिलयाच्चपूर्वतो निरमापयत्सकलभूतलाद्भुतं ॥ १० ॥
प्रोद्भाविधाटीपट्टभिस्तरंगैर्विगाह्य गोकर्णगिरिं नरेन्द्रः ।
समग्रहीद्दुर्गशैलराजं व्याधूययुद्धोद्धरधीरधुर्यान् ॥ ११ ॥
नीलाभ्रंलिहमर्बुदाचलमसौ प्रौढप्रतापांशुमा-
नारोह्याखिलसैनिकानसिवले नाजावजेयोजयत् ।
निर्मायाचलदुर्गमस्य शिखरे तत्राकरोदालयं
कुम्भस्वामिन उच्चशेखरशिखं प्रीत्य रमाचक्रिणोः ॥ १२ ॥
अर्बुदाचलशिरोवतंसिकां सर्वपार्थिवशिरोमणिर्महान् ।
निर्जितारिकरतुष्टबंधनात्तीर्थसंहतिमसावमोचयत् ॥ १४ ॥
चतुरश्चतुरो जलाशयान् चतुरो वारिनिधीनिवापरान् ।
स किलार्बुदशेखरे नृपः कमलाकामुककेलये व्यधात् ॥ १५ ॥
स्फूर्जद्गुर्जरदेशदाहनविधावुद्दामधूमावलीं
यामुद्वेलवतीं व्यचीकरदिलां वेलावधिं सर्वतः ।
यस्तस्यामुदजम्भतः प्रियतमाधम्मिल्लमंजुद्युति-
र्जानीमो गगनस्थलं मलिनिमा सोयं समालिंगति ॥ १६ ॥
श्रीकुम्भो मालवांभोधिनाथमंथलुमहीधरः ।
अखर्वमकरद्गर्व महंमदमहीपतेः ॥ १७ ॥
शेषांगद्युतिगर्व रुन्नरपतेर्यस्यैदुधामोज्ज्वला
कीर्तिः शेषसरस्वतीविजयिनी यस्यामला भारती ।
213