महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 268, कुल 296 में से
संदर्भ में पढ़ेंAppendix.
यत्नं रत्नपुरप्रभंजनविधावाधायधीमानतो
नायं नायमनेकराजनिकरान् कारागृहेवीवसत् ॥ २६० ॥
पंढातीनां पादलक्षं सपादलक्षमावृतम् ।
कृत्वा मल्लारणवीरो रणस्तंभं तथाजयत् ॥ २६१ ॥
श्राम्रदाद्रिदलनेन दारुणः कोटडाकलहकेलिकेसरी ।
कुम्भकर्णनृपतिर्ववावदो धूलनोद्धतभुजो विराजते ॥ २६२ ॥
नम्रानेकनृपालमौलिनिकरप्रत्युप्तहीरांकुर-
श्रेणीरश्मिमिलन्नखद्युतिभरः शत्रून् रणाप्रांगणे ।
दीर्घांदोलितबाहुदंडविलसत्कोदंडदंडोल्लस-
द्बाणास्तान्विचरय्य मण्डलकरं दुर्गे क्षणेनाजयत् ॥ २६३ ॥
जित्वा देशमनेकदुर्गविषमं हाडावटीं हेलया
तन्नाथान् करदान्विधाय च जयस्तंभानुदस्तंभयत् ।
दुर्गं गोपुरमत्रषटपुरमपि प्रौढां च वृंदावर्ती
श्रीमन्मंडलदुर्गमुच्चविलसच्छालां विशालां पुरीम् ॥ २६४ ॥
उत्खातमूलं सलिलैः प्रभंजन इव द्रुमं ।
विशालनगरं राजा समूलमुदमूलयत् ॥ २६५ ॥
तन्नागरीनयननीरतरंगिणीना-
मंगीकृतं किमु समुत्तरणं तुरंगैः ।
श्रीकुम्भकर्णनृपतिः प्रवितीर्णझंपै-
रालोडयद्गिरिपुरं यदमीभिरुग्रः ॥ २६६ ॥
यदीयगज्जद्गजतूर्यघोषसिंहस्वनाकर्णननष्टशौर्यः ।
विहाय दुर्गं सहसा पलायां चकार गोपालशृगालवालः ॥ २६७ ॥
त्यक्त्वा दीनादीनदीनाधिनाथा दीना बद्धा येन सारंगपुर्याम् ।
योषाः प्रौढाः पारसीकाधिपानां ताः संख्यातुं नैव शक्नोति कोपि।२६८।
गर्ज्जन् म्लेच्छतिमिंगिलाकुलतरं रंगत्तरंगोर्मिमन्
मातंगोद्धतनक्रचक्रममितं प्राकारवेलाचलं ।
211