सामग्री पर जाएँ
सर्वकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 267, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 267

Maharana Kumbha.
कुन्तलाकालतवैरिसुन्दरीविभ्रमे रमितविक्रमोऽगृहीत् ॥ २४७ ॥
अरिन्दमः स्वांघ्रिसरोजलग्नं विशोध्य शोध्याधिपतिप्रतीपम् ।
अरंतुदं कण्टकमिद्धतेजा भंक्त्वा क्षिपद्भूमितलेऽसिसूच्या ॥२४८॥
येन वैरिकुलं हत्वा मंडोवरपुरग्रहे ।
अनायि शांतिं रोषाग्निर्नागरीनयनांबुभिः ॥ २४९ ॥
विगृह्य हम्मीरपुरं शरोत्करैर्निगृह्य तस्मिन् रणवीरविक्रमम् ।
पर्यग्रहीदंबुजमंजुलोचना महीमहेन्द्रो नरपालकन्यकाः ॥ २५० ॥
नानादिग्भ्यो राजकन्याः समेत्य क्षोणीपालं कुम्भकर्णं श्रयंते ।
सत्यं रत्नं जायते सागरादौ युक्तं विष्णोर्वक्ष एवास्य धाम ॥ २५१ ॥
स धन्यो धान्यनगरमामूलादुदमूलयत् ।
पुरारिविक्रमो यागपुरं पुरमिवाजयत् ॥ २५३ ॥
ज्वालावलीवलयितां हृतनोद्यवालीं
मन्नीवरवीरमुदवीवहदेष नीरं ।
यो वर्द्धमानगिरिमाशु विजित्य तस्मिन्
मेवानमंदमदवद्धविधीनघाक्षीत् ॥ २५४ ॥
जनकाचलमुच्चशेखरं बलवन्मालवनाथमस्तके ।
प्रवरं गिरिदुर्गमुद्धतश्चरणं वाममिव व्यधादयम् ॥ २५६ ॥
महोच्चजनकाचले निखिलमालवक्ष्मापते-
र्गलेपदमिवन्यधादमितविक्रमो भूपतिः ।
सरांसि जयवर्द्धने कृतपुरेपि यो वर्द्धने
महामहिमशेखरे विपुलवप्रमुग्रद्युतिः ॥ २५७ ॥
जनकाचलमग्रहीदलं महतीं चंपवतीमतीतपत्
गिरिसुन्दरखोलखंडनावनिवज्रायुध एष भूपतिः ॥ २५८ ॥
प्रत्यर्थिपार्थिवपराजयजन्महेतुर्वृंदावतीपुरमदीदहदेष वीरः ।
तद्गर्गराटगिरिदुर्गमपि क्षणेन संक्षोभमापयदपारपराक्रमेण ॥२५९॥
मल्लारण्यपुरं वरेण्यमनलज्वालावलीढं व्यधा-
द्घोरः सिंहपुरीमवीभरदसिप्रध्वस्तवैरिव्रजैः ।
210