ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 98, कुल 272 में से
संदर्भ में पढ़ें७० ललितासहस्रनाम ।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ १०६ ॥
तारतम्यवचनान्युपष्टम्भकत्वेन योजनीयानि । ब्रह्मादीनामपि मोहकत्वान्महामाया ।
तदुक्तं मार्कण्डेयपुराणे । 'ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य
मोहाय महामाया प्रयच्छति' । कालिकापुराणेऽपि । 'गर्भान्तज्ञानसंपन्नं प्रेरितं सूति-
मारुतैः । उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् । पूर्वातिपूर्वसंघातसंस्कारेण नियोज्य
च। आहारादौ ततो मोहममत्वाज्ञानसंशयम् । क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः-
पुनः । पश्चात्कामेन योज्याशु चिन्तायुक्तमहर्निशम् । आमोदयुक्तं व्यसनासक्तं जन्तुं
करोति या । महामायेति संप्रोक्ता तेन सा जगदीश्वरी'ति । यद्वा 'माया दम्भे कृपायां
चे'ति कोशात्कृपाबहुला । सतो भावो बलं गुणः । प्राणिनश्च सत्वपदार्थाः । 'सत्त्वं गुणे
पिशाचादौ बले द्रव्यस्वभावयो'रिति विश्वः । महान्ति सत्त्वानि यस्याः, महती सर्व-
जगन्निर्वाहकत्वादिरूपा विस्तृता विविधा च शक्तिः सामर्थ्यं यस्याः सा । 'शक्तिर्बले
च सामर्थ्ये तथा प्रहरणान्तरे'इति यादवः । बलायुधपक्षावपीह योज्यौ । उक्तं च
विष्णुपुराणे । 'एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथै-
तदखिलं जग'दिति । 'तत्राप्यासन्नदूरत्वाद्वहुलं स्वल्पता यतः । ज्योत्स्नाभेदोऽस्ति
तच्छक्तेस्तद्वन्मैत्रेय विद्यत'इति । महाशक्तिः कुण्डलिनीत्यत्र यदि तृतीयाक्षरस्य ताल-
व्यत्वनिश्चयस्तदात्राकारप्रश्लेषः कर्तव्य इति न पौनरुक्त्यम् । न विद्यते महती शक्ति-
र्यदपेक्ष्येति बहुव्रीहिः । 'न तत्समश्चाभ्यधिकश्च दृश्यत'इति श्रुतेः । छलाक्षरसूत्रे
परिभाषायां चानयोश्चतुरक्षरत्वोक्तिबलात्कचित्पुस्तकेषूपलम्भाच्च महासनामहाशनापद-
योरिव भेदमङ्गीकृत्यास्माभिस्तथा व्याख्यातम् । नह्येतद्विष्णुसहस्रनामादिवत्पुनरुक्तिशता-
क्रान्तं येनार्थभेदमात्रमङ्गीकृत्य शब्दत ऐक्यं सोढव्यं स्यादिति । महती विषयरतिभ्यो-
ऽधिका रतिः प्रीतिर्ज्ञानिनां यस्यां सा । महाकामसुन्दरीत्वाद्वा महारतिरित्युच्यते
॥ १०५ ॥ महानाभोगः क्षित्यादिरूपो विस्तारो यस्याः । भोगः सुखं वा धनं वा
महद्यस्या इति वा । ऐश्वर्यमीश्वरता विभूतिश्चेत्युभयं महद्यस्याः । महान्ति वीर्याणि
शुक्रादीनि यस्याः । 'वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपी'ति विश्वः । महान्ति
बलानि गन्धादीनि यस्याः । 'बलं गन्धे रसे रूपे स्थामनि स्थौल्यसेनयोः । बलो
हलायुधे दैत्यभेदे वलिनि वायस'इति विश्वः । वायसपक्षे भुशुण्डादयो यत्प्रसादान्म-
हान्तो जाता इति योज्यम् । तथाच योगवासिष्ठे वसिष्ठंप्रति भुसुण्डाख्यस्य वायसस्य
वाक्यम् । 'भ्रातरश्चण्डतनया वायसा एकविंशतिः । भ्रातृभिः सह हंसीभिर्राज्ञी
भगवती तथा । चिरमाराधितास्माभिः समाधिविरमे सति । प्रसादपरया काले
भगवत्या ततः स्वयम् । तथैवानुगृहीताःस्मो येन मुक्ता वयं स्थिता'इत्यादि । अथ
परिभाषायां चत्वारिंशन्नामानि विभजते ॥ भुवि हि चतुर्द्देहार्थे चतुष्पदार्थे