ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 97, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ६९
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्वा महाशक्तिर्महारतिः ॥ १०५ ॥
ल्यर्थः । तथाच लैङ्गे । ‘समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः । सोमात्मको बुधैर्देवो
महादेव इति स्मृतः । सोमात्मकस्य देवस्य महादेवस्य सूरिभिः । दयिता रोहिणी प्रोक्ता
बुधश्चैव शरीरज’इति । वायवीयेऽपि । ‘नाम्ना देवस्य महतश्चन्द्रमास्तनुरष्टमी । पत्नी तु
रोहिणी तस्य पुत्रश्चास्य बुधः स्मृत’इति । सेयं गण्डक्यां चक्रतीर्थाधिष्ठात्री देवता ।
‘शालग्रामे महादेवी’ति पाद्मे पुष्करखण्डे देवीतीर्थेषु परिगणनात् । तत्रैव ‘करवीरे
महालक्ष्मी’रिति परिगणितां देवीमाह महालक्ष्मीः । महती च सा लक्ष्मीश्च । महाविष्णो-
रियं पत्नी । करवीरं कलौ कोलापुरमिति प्रसिद्धम् । अथवा अम्बिकांशभूतैवेयम् ।
तदुक्तं मैलारतन्त्रे ‘महालनामकं दैत्यं स्यति क्षपयतीति च । महालसा महालक्ष्मीरिति
च ख्यातिमागता । उपत्यकायां सह्याद्रेः पश्चिमोदधिरोधसी’ति । शिवपुराणेऽपि शिवं
प्रकृत्य । ‘तस्याङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा । महालक्ष्मीरिति ख्याता श्यामा
सर्वमनोहरे’ति । आयुष्यसूक्ते ‘श्रियं लक्ष्मीमम्बिकामौपलाङ्गा’मित्यत्र लक्ष्मीपदमात्रस्य
पार्वत्यां प्रयोगश्च । तेन पदेन पूज्यवाचिमहत्पदस्य ‘सन्महत्परमे’त्यादिसूत्रेण समासः ।
‘सर्वस्याद्या महालक्ष्मीस्त्रिगुणा सा व्यवस्थिते’ति मार्कण्डेयपुराणं च । त्रयोदशवर्षा-
त्मककन्यारूपा वा । कन्यां प्रक्रम्य ‘त्रयोदशे महालक्ष्मी’रिति धौम्येन कथनात् । ‘मृड
सुखने’ इति धातोर्विश्वस्थितिकर्तुः सत्वगुणवतः शिवस्य मृड इति संज्ञा । ‘जन-
सुखकृते सत्वोद्रिक्तौ मृडाय नमोनम’ इति महिम्नस्तवात् । तस्य प्रिया ॥ १०४ ॥
महत् रूपचतुष्टयमपेक्ष्योत्कृष्टं रूपं यस्याः । तदुक्तं विष्णुपुराणे ‘परस्य ब्रह्मणो रूपं
पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् । प्रधानपुरुषव्यक्त-
कालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् । प्रधानपुरुष-
व्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतव’इति । महती च
सा पूज्या च महापूज्या । पूज्यानां शिवादीनामपि पूज्येत्यर्थः । तथाच पाद्मदेवी-
भागवतयोः शिवब्रह्मविष्णुकुबेरविश्वदेववायुवसुवरुणाग्निशक्रसूर्यसोमग्रहराक्षसपिशाच-
मातृगणादिभेदेन तत्तत्पूजनीयदेवीमूर्तिभेदो मन्त्रे शैलेन्द्रनीलस्वर्णरौप्यपित्तलकांस्यस्फटि-
कमाणिक्यमुक्ताफलप्रवालवैडूर्यत्रपुसीसवज्रलोहविकाररूपो विस्तरेण दर्शितः । अत्रा-
ग्निशक्रसूर्या माणिक्यमयीमेव प्रतिमां पूजयन्ति । इतरद्यथासंख्यं योजनीयम् । महान्ति
ब्रह्महत्यादीनि पातकानि नाशयतीति तथा । तथाच ब्रह्माण्डे । ‘कृतस्याखिलपापस्य
ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तं परं