सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 99, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 99

सौभाग्यभास्करव्याख्या । ७१
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ॥ १०७ ॥
भवेदविभौ । पादत्रयगुणदो द्विगौणाहौ द्विविभागशरवीरः ॥ १३ ॥
अत्र प्राथमिकं चतुरितिपदं द्विरिति पदद्वयं चैकार्थविभागपरम् । तेनाद्ये चत्वारि-
नामानि चतुरक्षराणि अन्त्ययोरष्टाक्षरे द्वेद्दे नामनी इति सिध्यति । चतुष्पदेत्यत्र
पदशब्दः पादपरः । स्पष्टमन्यत् ॥ १३ ॥ महती च सा बुद्धिश्च महाबुद्धिः । यस्यां
बुद्धावुत्पन्नायां ज्ञातव्यं नावशिष्यते सा महती । 'यस्मिन्विज्ञाते सर्वमिदं विज्ञातं
स्या'दिति श्रुतेः । महती बुद्धिर्यस्याः सकाशादिति वा । एवमेव द्वेधा महासिद्धिपदं
व्याख्येयम् । सिद्धयश्चाणिमाद्याः प्रसिद्धाः । अन्या अप्युक्ताः स्कन्दपुराणे । 'रसानां स्वत
उल्लासः प्रथमा सिद्धिरीरिता । द्वन्द्वैरनभिभूतिश्च द्वितीया सिद्धिरुच्यते । अधमोत्तम-
ताभावस्तृतीया सिद्धिरुत्तमा । चतुर्थी तुल्यता तेषामायुषः सुखदुःखयोः । कान्तेर्बलस्य
बाहुल्यं विशोका नाम पञ्चमी । परमात्मपरत्वेन तपोध्यानादिनिष्ठता । षष्ठी निकाम-
चारित्वं सप्तमी सिद्धिरुच्यते । अष्टमी च तथा प्रोक्ता यत्र क्वचनशायिते'ति ।
महतां योगेश्वराणामीश्वरीति तथा ॥ १०६ ॥ महान्ति बहुफलप्रदानि तन्त्राणि
कुलार्णवज्ञानार्णवादीनि मन्त्रा बालाबगलादयो यन्त्राणि पूजाचक्रपद्मचक्रामृतघट-
मेरुलिङ्गादीनि यस्याः सा तथा । यद्वा स्वतन्त्राख्यं तन्त्रं श्रीविद्याख्यो मन्त्रः सिद्धि-
वज्राख्यं च यन्त्रं महत्सर्वोत्तमं यस्याः । स्वतन्त्रस्यान्यानपेक्षत्वान्महत्त्वम् । तदुक्तं
तत्रैव 'भगवन्सर्वतन्त्राणि भवतोक्तानि वै पुरा । तेषामन्योन्यसापेक्ष्याज्जायते मति-
विभ्रमः । तस्मात्तु निरपेक्षं मे तन्त्रं तासां वद प्रभो' । इति प्रश्ने 'शृणु कादिमतं तन्त्रं
पूर्णमन्यानपेक्षया । गोप्यं सर्वप्रयत्नेन गोपनं तन्त्रचोदित'मिति । सौन्दर्यलहर्यामप्युक्तं ।
'चतुःषष्ठ्या तन्त्रैः सकलमभिसंधाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः ।
पुनस्त्वं निर्बन्धादखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिद'मिति ।
मन्त्रविषये तु 'श्रीविद्येव तु मन्त्राणा'मित्यादीनि कुलार्णवशक्तिरहस्ययोः परःसहस्रं
वचनानि द्रष्टव्यानि । सिद्धिवज्राख्यं यन्त्रं प्रकृत्य नित्यातन्त्रे स्मर्यते । 'ललिताविद्यया
विद्यामन्यां यन्त्रेण वामुना । यन्त्रमन्यत्समं वेत्ति योऽसौ स्यान्मूढचेतन'इति । महदासनं
क्षित्यादिषट्त्रिंशत्तत्त्वरूपं यस्याः । 'एषा भगवती सर्वतत्त्वान्याश्रित्य तिष्ठती'ति देवी
भागवतात् । ब्राह्मयाद्यंशभूताक्षोभ्यादिचतुःषष्टियोगिनीपूजासहितो महायागः स एव
क्रमः तदितरस्य सर्वस्यापि विलम्बितफलप्रदत्वेनाक्रमत्वात्तेनाराध्या । 'शक्तौ च
परिपाट्यां च क्रमश्चलनपङ्क्तयो'रिति शाश्वतः । यद्वा भावनोपनिषदा प्रतिपादितो यागो
रहस्यतरः शिवयोगैकसाध्यो महायागः । सचास्माभिस्तद्भाष्ये तत्प्रयोगविधौ च
विशदीकृत इति नेहोच्यते । भरणरमणवमनकर्ता सृष्टिस्थितिसंहृतिकारी परशिवो भैरवः
स एव महांस्तेन महाभैरवेण पूजिता । तदुक्तं पाद्मे 'शंभुः पूजयते देवीं मन्त्रशक्ति-