सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 105, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 105

सौभाग्यभास्करव्याख्या । ७७

विज्ञानं प्रज्ञानं जानदभिजानत् । संकल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लृप्तं क्लृप्तं
श्रेयोवसीय आयत्सम्भूतं भूत'मिति । अनयोरनुवाकयोश्च दिवसरात्रीनामत्वमित्यपि
तत्रैवाम्नातं । 'संज्ञानं विज्ञानं दर्शो दृष्टे'त्येतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नाम-
धेयानीति । अत्र यद्यपि खण्डत्रयमपि समानसंख्यमेव तथाप्येकादश्या दशमीवेधे
दशमीलात् 'उपोष्या द्वादशी शुद्धे'ति वचनाद्द्वादश्या एवैकादशीत्वाच्चरमखण्डान्तर्गत-
तिथेर्मध्यमखण्डे प्रवेशान्मन्त्रे द्वितीयतृतीयखण्डौ षट्चतुरक्षरौ भवतः । अतएव
वेधाभावपक्षाभिप्रायेण सूर्यादिविद्यान्तरेषु समानाक्षराण्येव त्रीणि कूटानि । अने-
नैवाशयेन शुभगोदयटीकायां लल्लेनोक्तम् । 'आपूर्यमाणायाः कलायाश्चन्द्रखण्डान्तः-
स्थिताया अपि सौरखण्डेऽन्तर्भावः । इराकलाप्रभेदलादिरापूर्यमाणयोरेक्यमनुसंधेय-
मिति । उक्तश्लोके दर्शाया इति पदस्य शुक्लप्रतिपदाया इत्यर्थः । उदाहृतश्रुतौ प्रतिपदो
दर्शनामकत्वोक्तेः तासां तिथीनां मन्त्राक्षराणां च प्रातिस्विकं शिवशक्तिमायाशुद्ध-
विद्यादितत्त्वात्मकत्वं कौलिकसामयिकमतभेदेन तत्तदुपासनाप्रकारश्च चन्द्रकलायां
द्रष्टव्यः । एवं च परस्पराभेदाच्छुक्लपक्षचतुर्थीरात्रेः संज्ञाभूतमपि विश्वरूपापदं वाग्भव-
कूटचतुर्थाक्षरस्य शुद्धविद्यातत्त्वस्य च प्रतिपादकमिति तन्नित्याभिनेत्यर्थः । अथवा
विश्वरूपमिति नपुंसकं पदम् । तस्य च मिथ्याजगदधिष्ठानेतिवत्स्त्रीलिङ्गता । तच्च
कृष्णपक्षपञ्चमीदिवसवाचकम् । तथाच श्रूयते । 'प्रस्तुतं विष्टुतं संस्तुतं कल्याणं
विश्वरूपं । शुक्रममृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन्मरीचिमदभितपत्त-
पस्वत् । सुता सुन्वती प्रसूता सूयमानाभिषूयमाना । पीति(ति) प्रपासंपा तृप्तिस्तर्प-
यन्ती । कान्ता काम्या कामजाती युष्मती कामदुघा । प्रस्तुतं विष्टुतं सुतासुन्वती'ति ।
एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानी'ति । तेन तद्रूपेत्यर्थः । एवं रात्रि-
विशेषस्य दिवसविशेषस्य चोपलक्षणरीत्या श्लेषलिप्सया चैकैकस्यैवोपादानेऽपि सर्व-
रात्रिरूपा सर्वदिवसरूपा चेत्यर्थः पर्यवस्यति । अतएवेदृशज्ञाने फलविशेषः श्रूयते ।
'स यो हवा एता मधुकृतश्च मधुवृषांश्च वेद कुर्वन्ति हास्यैता अग्नौ मधु नास्येष्टा-
पूर्तं धयन्ति । अथ यो न वेद न हास्यैता अग्नौ मधु कुर्वन्ति धयन्त्यस्येष्टापूर्तं'मिति ।
अत्र मधुकृच्छब्दो रात्रिपरः । मधुवृषशब्दश्च दिवसपरः । या एताः पूर्वपक्षापरपक्षयो
रात्रयस्ता मधुकृतो यान्यहानि ते मधुवृषा इति वाक्यशेषात् । मधु कुर्वन्ति वर्षन्ति
चेत्यवयवशक्तेश्च । एता यो वेद तस्यैता दिवससहिता रात्रयः अग्नौ बैन्दवस्थानात्
ब्रह्मरन्ध्रान्मधु कुर्वन्ति स्रावयन्ति । अस्येष्टापूर्तं कर्मजातं न धयन्ति पीत्वा न लोप-
यन्ति । व्यतिरेकेऽनिष्टमाह । अथ य इत्यादिना । कुण्डलिन्युत्थापनेन मधुस्रावणेन
डाकिन्यादिमण्डलाप्लावनरूपान्तरकर्मणि सत्येव बाह्यानि यज्ञादिकर्माणि सफलानि भ-
वन्ति । तदभावे तु यस्मिन्काले कर्माणि क्रियन्ते स काल एव तेषां कर्मणां काल-
मृत्युरूपो भवतीति फलितार्थः । तदिदमुपबृंहितं चन्द्रज्ञानतन्त्रे । 'अन्तरग्नौ मधुस्रावं
कुर्वतां शिशिरात्मनाम् । इष्टापूर्तादिकर्माणि फलन्ति किल कालतः । अन्तःस्रावविही-