ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 104, कुल 272 में से
संदर्भ में पढ़ेंजीवपरमात्मनोरप्याधिक्यात्प्रातिस्विकं पञ्चविध्यम् । नचैतावता वैमल्यं, त्रिवृत्करण-
पञ्चीकरणप्रक्रिययोरिव स्थूलसूक्ष्मदृष्टिभेदेन व्यवस्थोपपत्तेः । परंतु सुषुप्तावेव प्राज्ञस्य
ब्रह्मभावसंपत्त्या तदतीतावस्थाद्वयापन्नस्यात्मनो न जीवभावः । अविद्यालेशानुवृत्तेः
सत्त्वाच्च न परमात्मभावोऽपि । अतएव सुषुप्तिदशापन्नजीवोपाधेः कारणशरीरत्वेनेव
तुर्यदशापन्नजीवोपाधेर्महाकारणशरीरत्वेन व्यवहारः 'तत्परश्च शिवतुल्यो जायत' इति
शिवसूत्रे तादृशः शिवतुल्यत्वेन निर्दिष्टः । अर्धसाम्यादर्धशिव इति तदर्थः । अतएव
च ततोपि परस्य 'निरञ्जनः परमं साम्यमुपैती'तिश्रुतावभेदस्य परमसाम्यपदेन निर्देश
उपपद्यते । अनेनैवाशयेन पूर्णजीवतायाः पूर्णशिवतायाश्च तद्दशायामभावान्न पृथग्गण-
नमौपनिषदानाम् । अतएव 'मुग्धेऽर्धसंपत्तिः परिशेषा'द