सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 103, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 103

सौभाग्यभास्करव्याख्या । ७५
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ११३ ॥
महत्त्वेन धर्म एव निरुच्यते । तेनेष्टप्रापको धर्म आचार्यैरुपदिश्यते । इतरोऽनिष्टफलद-
स्वाचार्यैरुपदिश्यते'इति । संवर्तस्मृतिरपि । 'देशेदेशे य आचारः पारम्पर्यक्रमागतः ।
आम्नायैरविरुद्धश्च स धर्मः परिकीर्तित' इति । याज्ञवल्क्योपि । 'इज्याचारदमाहिंसादान-
स्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शन'मिति । जैमिनिरपि ।
'चोदनालक्षणोऽर्थो धर्म'इति । अत्रैवाधर्म इत्यकारप्रश्लेषेण विहितनिषिद्धक्रियात्वे
तल्लक्षणे ऊह्ये । ताभ्यां विवर्जिता । तिर्यगधिकरणन्यायेन देवतानां कर्मानधिकारि-
लात् । शास्त्रस्याविद्यावद्विषयत्वाद्वा । यद्वा धर्माधर्मौ बन्धमोक्षौ । 'धर्माधर्मस्य
वाच्यस्य विषामृतमयस्य चे'ति नित्याहृदयश्लोके तथा व्याख्यानदर्शनात्तदुभयरहिता ।
तथाच त्रिपुरोपनिषदि श्रूयते । 'न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः । न
मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थते'ति । अथवा धर्मशब्दो मलर्थलक्षणया धर्मिपरः ।
अधर्मशब्दो बहुव्रीहिणा धर्मपरः । धर्मिधर्मभावेन रहिता । जगता सहायन्ताभिन्ने-
त्यर्थः । धर्माधर्मशब्दौ शक्तिशिवाक्षरवाचकौ ताभ्यां विवर्जिता पञ्चदशीलेतेति (?) तु
रहस्यार्थः । धातूनामनेकार्थत्वाद्वर्जनमभिवृद्धिः । तच्चाक्षरद्वयं नित्याहृदये कथितम् ।
'मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः । मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके
पुनः । राहूकूटद्वयं स्फूर्ज'दिति । एतस्यार्थो गुरुमुखादवगन्तव्यो वरिवस्यारहस्ये वा
सेतुबन्धे वा प्रपञ्चितोऽस्माभिरिति ततोऽवगन्तव्यः । अथैकोनविंशतिनामभिर्विश्वेश्वर-
योर्भेदान्विभजंस्तदात्मकत्वेन देवीं स्तोतुमुपक्रमते—विश्वरूपेत्यादिना । सृष्टि-
क्रमे हि प्राथमिकस्तमःसर्गस्ततो महतः सर्गस्ततोऽहंकारस्य त्र्यात्मकस्य । ततः पञ्च-
तन्मात्रापरपर्यायाणि सूक्ष्मभूतानि शब्दादीनि भवन्ति । तेषु च पञ्चज्ञानशक्तयः
पञ्च क्रियाशक्तयश्च सन्ति । तास्ताद्या व्यष्टिवेषेण श्रोत्रादिज्ञानेन्द्रियपञ्चकं जनयन्ति ।
समष्टिवेषेण लन्तःकरणम् । अन्या अपि व्यष्टिवेषेण वागादिकर्मेन्द्रियपञ्चकं समष्टि-
वेषेण प्राणं जनयन्ति । धर्मिभूताः शब्दादयस्तु गगनादिस्थूलभूतपञ्चकं जनयन्तीति
वस्तुस्थितिः । तत्र व्यष्टिभूतैः स्थूलभूतोपाधिभिः सूक्ष्मभूतोपाधिभिः कारणोपाधि-
भिश्चोपहितं चैतन्यं क्रमेण विश्वतैजसप्राज्ञपदवाच्यं भवति । समष्टिभूतैस्तैरुपहितं तु
तत्त्वं क्रमेण वैश्वानरहिरण्यगर्भेश्वरपदवाच्यम् । अन्तःकरणकारणोपहितः परमात्मा
हिरण्यगर्भः । प्राणकारणोपहितस्तु सूत्रात्मा । उभाभ्यां कारणाभ्यामविभक्ताभ्या-
मनुगमय्योपहितस्त्वन्तर्यामीत्युच्यते । एते त्रय एव ब्रह्मविष्णुरुद्रपदैः क्रमादभिधेया
भवन्ति । एतच्च व्यष्टिजीवात्मसमष्टिजीवात्मपरमात्मनां प्रातिस्विकं त्रैविध्यमौप-
निषदानां मतमवलम्ब्योक्तम् । तेषामन्ते जाग्रत्स्वप्नसुषुप्तीनामवस्थानां सृष्टिस्थिति-
संहाराणां कृत्यानां च त्रयस्य त्रयस्यैवाङ्गीकारात् । तान्त्रिकाणां मते तु तुर्यतुर्याती-
तयोरवस्थयोस्तिरोधानानुग्रहयोः कृत्ययोश्च द्वयोर्द्वयोराधिक्येन तदवस्थाकृत्यापन्नयो-