सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 102, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 102

पञ्च ब्रह्मरूपेण संस्थित'-
Wait, in line 15, is there a hyphen after संस्थित'-? Yes, संस्थित'-
मिति । यद्वा । ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यानि पञ्च ब्रह्माणि । तथाच
लैङ्गे 'क्षेत्रज्ञप्रकृतिबुद्ध्यहंकारमनांसि श्रोत्रत्वक्चक्षुर्जिह्वोपस्थानि शब्दादिपञ्चतन्मात्राणि
च पञ्च ब्रह्मस्वरूपाणीत्युक्त्वा तेषामाकाशादिपञ्चमहाभूतजनकत्वमुक्तम् । तादृशस्वरूप-
वतीत्यर्थः । यज्ञवैभवखण्डेऽप्युक्तम् । 'एक एव शिवः साक्षात्सत्यज्ञानादिलक्षणः । विकार-
रहितः शुद्धः स्वशक्त्या पञ्चधा स्थित'इति । सृष्टिस्थित्यादिपञ्चकृत्यशक्तिभिः सद्यो-
जातादिपञ्चरूपो जात इत्यर्थः । गरुडपुराणेऽपि । 'लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः ।
वासुदेवस्य रूपेण तथा संकर्षणेन च । प्रद्युम्नाख्यस्वरूपेणाऽनिरुद्धाख्येन च स्थितः । नारा-
यणस्वरूप