सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 251, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 251

( २३४ )
PURPORT IN SANSKRIT :—शिवविषयकं पार्वत्या अचला-
नुरागं स्वोपस्थित्या तदीयसात्विकभावञ्च दृष्ट्वा शिवः पार्वतीं प्राह-
' हे सुन्दरि पार्वति ! अस्माद्दिनादारभ्याहं ते सेवको जात ; अव-
श्यमेवाहं ते कामनां सफलां करिष्यामि ।' शिवस्यैतत्कथनमाकर्ण्य
पार्वती क्षणेनैव तपःक्लेशरहिता बभूव, यतो हि फले प्राप्ते सति
तत्प्राप्त्यर्थं कृतः क्लेशो न दुःखयति ॥ ८६ ॥
इति महाकविश्रीकालिदासविरचिते कुमारसंभवे महाकाव्ये
तपःफलोदयो नाम पञ्चमः सर्गः ।