कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 238, कुल 268 में से
संदर्भ में पढ़ें( २२१ )
said one good point about the Lord How can he,
who is celebrated as the cause of even the self-existent
(Brahman ), have his birth known ? 81
PURPORT IN SANSKRIT :- हे ब्रह्मचारिन् ! शिवस्य •
दोषान् दर्शयता पतितात्मना त्वया तद्विषये 'अलक्ष्यजन्मता' इति
यत्कथितं तत्तु सम्यग्भाषितम् । यो हि शिवो जगदुत्पादकस्य
ब्रह्मणोऽप्युत्पादकस्तस्योत्पत्तिविषये कश्चिदपि किमपि ज्ञातुं
कथं शक्नोति ? ॥ ८१ ॥
अलं विवादेन यथा श्रुतस्त्वया
तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं
न कामवृत्तिर्वचनीयमीक्षते ॥ ८२ ॥
अलमिति । अथ वा विवादेन कलहेन अलम् । त्वया तावत्
यथा येन प्रकारेण स ईश्वरः श्रुतः अशेषं कार्त्स्न्येन तथाविधः
तावत्प्रकारः एव अस्तु । मम मनः तु अत्र ईश्वरे भावैकरसं भावः
शृङ्गार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथा
हि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयं अस्थानसङ्गापवादं
न ईक्षते न विचारयति । न हि स्वेच्छासंचारिणो लोकापवादा-
द्विभ्यतीति भावः ॥ ८२ ॥
PROSE ORDER :-( हे विप्र ) विवादेन अलम् , त्वया स
यथा श्रुतः अशेषं तावदस्तु, मम मनः अत्र भावैकरसं स्थितम् ,
कामवृत्तिः वचनीयं न ईक्षते ॥ ८२ ॥
NOTES :-विवादेन-( वि + √वद् + घञ् ) वाक्कलहेन
quarrels or dispute. Instrumental is used because