सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 148, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 148

( १२६ )
से अत्यधिक कृश की हुई, सूर्य (की गर्मी) से झुलसे हुये
आभूषण पहिनने के स्थान वाली, तथा दिन में चन्द्रमा की कला
जैसी तुम को देखने वाले किस भावुक का मन दुःखी न
होगा ? ॥ ४८ ॥
English Translation — Of what person, having
a heart, the mind is not afflicted, on seeing thee, like
the crescent of the moon by day, who is extremely
emaciated by ( the observance of ) saintly vows and
whose places of ornaments have been scorched by the
sun ? 48
Purport in Sanskrit :—त्वं मुनिसम्बन्धिकठोरव्रतपाल-
नेन नितरां कृशा जाता, तव भूषणस्थानीयानि गात्राणि च सूर्यस्य
तापेन दग्धानि। तव दशा तु दिवसकाले सूर्यप्रकाशेन मन्दीकृतायाः
क्षीणायाश्चन्द्ररेखाया इव दयनीयास्ति, तर्हि क एतादृशो भावुको
यस्त्वामीदृशीं दृष्ट्वापि दुःखी न भवेत् ? ॥ ४८ ॥
अवैमि सौभाग्यमदेन वञ्चितं
तव प्रियं यश्चतुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो
न वक्त्रमात्मीयमरालपक्ष्मणः ॥ ४९ ॥
अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्भेण ।
कर्त्रा । वञ्चितं विप्रलब्धम् अवैमि वेद्मि यः । प्रियञ्चतुरं मधुरम-
वलोकत इति चतुरावलोकिनः अरालपक्ष्मणः कुटिलरोम्णः ।
‘अरालं वृजिनं जिह्मम्’ इत्यमरः । अस्य त्वदीयस्य चक्षुषः
आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिपथं न
गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति
भावः ॥ ४९ ॥