कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 19, कुल 84 में से
संदर्भ में पढ़ेंसाधनमाला १३
ब्रह्मा शिवो मे अस्तु मरीच्यै नमः उत्तरवक्त्रे ।
सदाशिवोम् अंशुमालिन्यै नमः पश्चिमवक्त्रे ।
अंगुष्ठतर्जनी को मिला उनसे न्यास करे—
तत्पुरुषाय विद्महे शान्त्यै नमः पूर्ववक्त्राधः ।
महादेवाय धीमहि विद्यायै नमः दक्षिणवक्त्राधः ।
तन्नो रुद्रः प्रतिष्ठायै नमः उत्तरवक्त्राधः ।
प्रचोदयात् निवृत्यै नमः पश्चिमवक्त्राधः ।
अंगुष्ठमध्यमा को मिला उनसे न्यास करे—
अघोरेभ्यः तमायै नमः हृदि ।
अथ घोरेभ्यो मोहायै नमः ग्रीवायां ।
घोर क्षमायै नमः दक्षांसे ।
घोरतरेभ्यो निद्रायै नमः वामांसे ।
सर्वतः शर्व व्याध्यै नमः नाभौ ।
सर्वेभ्यो मृत्यवे नमः कुक्षौ ।
नमस्ते अस्तु क्षुधायै नमः पृष्ठे ।
रुद्ररूपेभ्यः तृष्णायै नमः वक्षसि ।
अंगुष्ठअनामिका को मिलाकर उनसे न्यास करे—
वामदेवाय नमो रजायै नमः गुह्ये ।
ज्येष्ठाय नमः श्रेष्ठाय नमो रक्षायै नमः लिंगे ।
रुद्राय नमो रत्यै नमः दक्षोरौ ।
कालाय नमो मालिन्यै नमः वामोरौ ।
कल विकरणाय नमः काम्यायै नमः दक्षजानुनि ।
विकरणाय नमः शशिन्यै नमः वामजानुनि ।
बल विकरणाय नमः क्रियायै नमः दक्षजंघायां ।
विकरणाय नमः वृद्ध्यै नमः वामजंघायां ।
बलाय नमः स्थिरायै नमः दक्षस्फिचि ।
बलप्रमथनाय नमः रात्र्यै नमः वामस्फिचि ।