कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
पृष्ठ 88, कुल 160 में से
संदर्भ में पढ़ेंकृषिपराशरः ५७
क्षेत्रे चाखण्डितधान्ये पुष्ययात्राप्रभावतः ।
अस्माभिर्मानिता सर्वैः साक्षान् पातु शुभप्रदा ॥२२९॥
कर्मणा मनसा वाचा ये चास्माकं विरोधिनः ।
सर्वे ते प्रशमं यान्तु पुष्ययात्राप्रभावतः ॥२३०॥
5 धान्यवृद्धैर्यशोवृद्धिः प्रवृद्धिर्दारपुत्रयोः ।
राजसंमानवृद्धिश्च गवां वृद्धिस्तथैव च ॥२३१॥
मन्त्रशासनवृद्धिश्च धनवृद्धिरहर्निशम् ।
अस्माकमस्तु सततं यावत् पूर्णो न वत्सरः ॥२३२॥
ततः प्रमुदिताः सर्वे व्रजेयुः स्वनिकेतनम् ।
10 न भोजनं पुनः कुर्यु स्तस्मिन्नहनि ते जनाः ॥२३३॥
1 A, B चाखण्डिते for ०खण्डित. B तव देव प्रसादतः for पुष्य...प्रभावतः.
C क्षेत्रेण रक्षिता for क्षेत्रे चाखण्डित, पुरा कृता for प्रभावतः. D अस्मिन्
पूज्या यात्रा प्रभावतः.
2 A reads पूषेण गमिताः सर्वं समर्था न शुभपदाः. B पुष्यन्तु मिलिताः शस्यानि
शुभकारकाः. D omits the line.
3 B transposes कर्मणा and मनसा. For D, see footnote 10 below.
4 B and D transpose सर्वे and ते. D नाशमायान्तु for प्रशमं यान्तु,
प्रसादतः for प्रभावतः.
5 B, D पुत्रदारयोः for दारपुत्रयोः. D स्त्रीवृद्धिः ( श्रीवृद्धिः ? ) for प्रवृद्धिः.
6 A omits the line.
7 B लक्ष्मी for धन. C गोलगोशाल for मन्त्रशासन, हविर्वृद्धि for धनवृद्धि.
D कीर्ति for मन्त्र.
8 D reads—अस्माकं तु शुभेनैव जातं ( तः?) संपूर्णवत्सरम् (रः ?).
9 C पुनरपि for प्रमुदिताः, inserts ते (contrary to metre) bet. अपि
and सर्वे. D सुमुदिताः for प्रमुदिताः, the portion bet. सर्वं and स्व
is illegible. A omits the line.
10 B मानवाः for ते जनाः. C सु for न, ततः for पुनः. D तद्दिने संयता जनाः
for तस्मिन्... जनाः. A omits the line.
Note: Bet. lines 8 and 9, D reads अस्माकं मिलिताः सर्वे सुहृदः
सन्तु मानवाः and the whole of V. 230.