सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 48, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 48

कृषिपराशरः
अथ श्रावणवृष्टिलक्षणम्—
रोहिण्यां श्रावणे मासि यदि वर्षति वासवः ।
तदा वृष्टिर्भवेत्तावद् यावन्नोत्तिष्ठते हरिः ॥६२॥
कर्कटे रोहिणीऋक्षे यदि वृष्टिर्न जायते ।
तदा पराशरः प्राह हा हा लोकस्य का गतिः ॥६३॥
श्रावणे मासि रोहिण्यां न भवेद्वर्षणं यदि ।
विफलारम्भसंक्लेशास्तदा स्युः कृषिवृत्तयः ॥६४॥
अथ सद्योवृष्टिज्ञानम्*—
जलस्थो जलहस्तो वा निकटेऽथ जलस्य वा ।
स्रष्टा पृच्छति सृष्ट्यर्थं वृष्टिः संजायतेऽचिरात् ॥६५॥
1 A omits अथ and वृष्टि. B omits वृष्टि. D श्रावणनिरूपणं for श्रावण...
लक्षणम् ।
2 C वृष्टिर्भवेद्ध्रुवं for वर्षति वासवः ।
6 A वर्षणं न भवेत् for न...वर्षणं. C चतुर्थ्यां श्रावणे मासि for श्रावणे...रोहिण्यां ।
7 C संकाशा for संक्लेशा. For lines 6-7, D reads—श्रावणे मासि छत्रर्क्षे
यदि वर्षति वासवः। विपुला च तदा तु स्यात्कृषिवृत्तिर्विनश्यति ॥ After
line 7, C adds—श्रावणे प्रथमे पदे पूर्वभाद्रपदेषु च । चतुर्थ्यां यदि वर्षं
च तदा वर्षति वासवः ॥ पुरोवानहते (?) ग्रीष्मे श्रावणे वापि चर्षे हि ।
मेरुर्दर्शयते शृङ्गं जलधिः शुष्यते तदा ॥ पाश्चात्त्यः कर्कटेवापि प्राच्यः कन्यां गते
रवौ । सिंहे निर्वाततामेति जलपूर्णा महीभवेत् ॥ दिवा जलधरैश्छन्नं रात्रौ च
निर्मलं नभः । शोषमेति तदा पृथ्वी नात्र कार्याविचारणा । After the
same line, B adds—अथ भाद्रादिलक्षणम् । सिंहे भौमवारे च पूर्व-
फाल्गुनिऋक्षके। व्यतीपाते च नन्दायां कन्यायां वर्षयेद् रविः ॥, and D
adds—इति पौषाद्यष्टमासिकवृष्टिज्ञानलक्षणम् ।

  • It is interesting to note the common indications mentioned
    here as well as in the Bṛhat-saṃhitā, Sadyovarṣaṇalakṣaṇam,
    pp. 411-422.
    8 A, D लक्षणं for ज्ञानम् ।
    9 B transposes जलस्थो जलहस्तो. C, D च for final वा. D तुलस्थे
    तुलहस्त (?) for जलस्थो जलहस्तो ।
    10 B दृष्टा for स्रष्टा, वृष्ट्यर्थं for सृष्ट्यर्थं. C पृष्ठः पृच्छति वृष्ट्यर्थं for स्रष्टा...
    सृष्ट्यर्थं, D वृष्टिप्रश्नो यदा भूयाद् for the same portion, and चिरात्
    for अचिरात् ।
    ३ 34446