सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 122, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 122

कृषिशास्त्रम्¹ ।
कृषिसमयनिर्णयः
अथातः संप्रवक्ष्यामि सङ्कीर्णविषये नृणाम् ।
क्रियाणामपि सत्कालमुहूर्त्तश्चविशेषतः ॥
प्रथमं संप्रवक्ष्यामि समयं कृषिकर्मणः ।
शुभं वज्रिनृणाञ्चैव देवानाञ्चविशेषतः ॥
कृषिमूलंहि सर्वेषां प्राणिनां सम्पदस्सदा ।
कृष्यभावेनसम्पत्स्यात्ततस्मारभेतकृषिम् ॥
पूर्वं शुभप्रवेशःस्यान्निमित्तान्यवलोकयेत् ।
मैत्रार्यमाशिरोहिएयां साहिर्बुध्न्योङ्कुजाहनि ॥
स्वान्युत्तरेषुपुष्येच रौद्रे याम्येच चित्तभे ।
कुर्यात्प्रवेशनं भूमेः प्रथमं ··· ··· ॥
वारेषुकौजः श्रेष्ठोऽत्र मध्यमौबुधजीवयोः ।
शेषावाराविवर्ज्याःस्युः सोमवारः कदाचन ॥
··· ··· ··· ··· ··· ··· ।
प्रवेशोगो...नान्तु गवां संपदमिच्छतः ॥
एवं प्रवेशनंकृत्वा वनच्छेदनमेवच ।
दहनादिकमप्येवं कृत्वा कृषिमथारभेत् ॥
रोहिएयादित्य पौष्णाक्षमूलहस्तोत्तराः क्रमात् ।
पुष्यस्तथानुराधाच कृषिकर्मणिपूजिताः ॥
वारनक्षत्रयोगेषु ··· ··· भुवम् ।
एष्वेवशुभयोगेषुकृषिमप्यारभेत्सुधीः ॥
पञ्चच्छिद्रेतरास्सर्वैतिथयः कृषिकर्मणि ।
पूजिताश्चेष्टवर्येथ···स्युः शुभावहाः ॥
1 For an account of this work, see Preface. The copy of the
Ms., used by us, is hopelessly corrupt. Instead of hazarding emenda-
tions, we have reproduced the text unaltered. The portions of the
text, which are absolutely unintelligible, have been indicated by
dotted lines.