काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 610, कुल 616 में से
संदर्भ में पढ़ेंव्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः । 71a
व्रीडा चपलता हर्ष आवेगो जड़ता तथा । 32a
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । 3a
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ 5b
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः । 23a
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् । 48a
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् । 106a
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥ 41b
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः । 38a
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ 81b
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ 70b
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । 29a
श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥ 84b
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ 96b
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥ 78b
श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् । 76a
श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् । 94a
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ 87b
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया । 44a
संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा । 8a
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ 63b
संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । 56a
संनिधानादिबोधार्थं स्थितेष्वेतत् समर्थनम् ॥ 58b
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । 92a
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ 19b
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । 103a
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ 2b
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ 45b
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् । 51a
समं योग्यतया योगो यदि संभावितः क्वचित् ॥ 125b
समस्तवस्तुविषयं श्रौता आरोपिता यदा ॥ 93b
समाधिः सूकरं कार्यं कारणान्तरयोगतः । 125a
स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽभिधोच्यते ॥ 8b