काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 609, कुल 616 में से
संदर्भ में पढ़ेंवक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । 77a
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । 107a
वर्णसाम्यमनुप्रासश् छेकावृत्तिगतो द्विधा । 79a
वर्णाः समासो रचना तेषां व्यञ्जकतांमिताः ॥ 73b
वस्तु तद् गुणतामेति भण्यते स तु तद्गुणः ॥ 137b
वस्तुनोर्जननेन्योन्यमुत्तरश्रुतिमात्रतः । 121a
वस्तु वालंकृतिर्वेति षड्भेदोसौ व्यनक्ति यत् ॥ 40b
वस्त्वलंकारमथवा तेनायं द्वादशात्मकः । 41a
वाक्ये द्व्यूत्थः पदेप्यन्ये प्रबन्धेप्यर्थशक्तिभूः ॥ 42b
वाक्येपि दोषाः सन्त्येते पदस्यांशेपि केचन ॥ 52b
वाच्यभेदेन भिन्ना यद् युगपद् भाषणस्पृशः । 84a
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोपि केषुचित् ॥ 6b
वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । 89a
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ 101b
विध्यनुवादायुक्तव्यक्तपुनःस्वीकृतोश्लीलः ॥ 57b
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । 135a
विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः । 113a
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः । 28a
विरोधः सोविरोधेपि विरुद्धत्वेन यद्वचः । 110a
विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । 25a
विषयद्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका ॥ 11b
विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥ 18b
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ 131b
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । 118a
विशेषोक्तिरखण्डेषु कारणेषु फलावचः । 108a
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ 44b
व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥ 28b
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः । 46a
व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने । 13a
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । 60a
व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ 141b
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । 112a
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ 118b