काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 560, कुल 616 में से
संदर्भ में पढ़ेंAPPENDIX A
Sanskrit Versions of Prakrit Verses
P. 10, L. 3 मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयमेवमेव न वासरः स्थायी ॥६॥
P. 10, L. 7. साधयन्ती सखि सुभगं क्षणे क्षणे दूनाऽसि मत्कृते ।
सद्भावस्नेहकरणीयसदृशकं तावद्विरचितं त्वया ॥७॥
P. 11, L. 4. पश्य निश्चलनिष्पन्दा विसिनीपत्रे राजते बलाका ।
निर्मलमरकतभाजनपरिस्थिता शंखशुक्तिरिव ॥८॥
P. 38, L. 2. एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् ।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥११॥
P. 41, L. 3. अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् ।
श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥१३॥
P. 41, L. 6. औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् ।
मम मन्दभागिन्याः कृते सखि त्वामप्यहह परिभवति ॥१४॥
P. 43, L. 1. तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरन्यत्र ।
इदानीं सैवाहं तौ च कपोलौ न च सा दृष्टिः ॥१६॥
P. 44, L. 2. नुदत्यनाद्रमनाः श्वश्रूमां गृहभरे सकले ।
क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥१८॥
P. 44, L. 5. श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥१९॥
P. 45. L. 6. गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिनी अहकम् ।
अद्य प्रवासं व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥२१॥
P. 80, L. 3. पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥५८॥
P. 82, L. 4. अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः ।
इति भणितेननताङ्गी प्रफुल्लविलोचना जाता ॥६०॥
P. 84, L. 9. केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता ।
यथा कन्दराभिर्विधुरस्तस्य दृढं कण्ठे संस्थापिता ॥६५॥
P. 85, L. 6. गाढालिङ्गन रभसोद्यते दयिते लघु समपसरति ।
मनस्विन्याः मानः पीडनभीत इव हृदयात् ॥६६॥