सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 58, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 58

४ काव्यमीमांसायाम्
तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो
व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥”
“सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्” इति
यायावरीयः । गद्यपद्यमयत्वात् कविधर्मत्वात् हितोपदेशकत्वाच्च
तद्धि शास्त्राण्यनुधावति । “वार्त्ता कामसूत्रं शिल्पशास्त्रं दण्ड-
नीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानि” इत्यपरे । आन्वीक्षिकी
त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः । “दण्डनीतिरेवैका विद्या”
इत्यौशनसाः । दण्डभयाद्धि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते ।
“वार्त्ता दण्डनीतिर्द्वे विद्ये” इति बार्हस्पत्याः । वृत्तिर्विनयग्रहणं च
स्थितिहेतुर्लोकयात्रायाः । “त्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याः”
इति मानवाः । त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री । “आन्वीक्षिकी-
त्रयीवार्त्तादण्डनीतयश्चतस्रो विद्या” इति कौटिल्यः । आन्वी-
क्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति । “पञ्चमी
साहित्यविद्या” इति यायावरीयः । सा हि चतसृणामपि विद्यानां
निष्यन्दः । आभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् । तत्र
त्रयी व्याख्याता । द्विधा चान्वीक्षिकी पूर्वोत्तरपक्षाभ्याम् । अर्ह-
द्भदन्तदर्शने लोकायतं च पूर्वः पक्षः । साङ्ख्यं न्यायवैशेषिकौ
चोत्तरः । त इमे षट् तर्काः । तत्र च तिस्रः कथा भवन्ति वादो,
जल्पो, वितण्डा च । मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो
वादः । विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो
जल्पः । स्वपक्षस्यापरिग्रहीत्री परपक्षस्य दूषयित्री वितण्डा ।
कृषिपाशुपाल्ये वणिज्या च वार्त्ता । आन्वीक्षिकीत्रयीवार्त्तानां
योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः । तस्यामायत्ता लोक-
यात्रा । इति शास्त्राणि । सामान्यलक्षणं चैषाम्—
“सरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः ।
ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याः ॥”
१ A B ॰ण्यनुधावन्ति. २ B omits षट् तर्काः । तत्र च.