सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 57, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 57

कविरहस्ये द्वितीयोऽध्यायः । ३

षडङ्गानि” इत्याचार्याः। “उपकारकत्वादलङ्कारः सप्तममङ्गमू” इति
यायावरीयः । ऋते च तत्स्वरूपपरिज्ञानाद्वेदार्थानवगतेः। यथा—
“द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति ॥”
सेयं शास्त्रोक्तिः । प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणं ब्राह्मणं 5
चोदाहृत्य भाषामुदाहरिष्यामः । तत्र वर्णानां स्थानकरणप्रयत्ना-
दिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका । नानाशा-
खाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः । सा च यजुर्विदा ।
शब्दानामान्वाख्यानं व्याकरणम् । निर्वचनं निरुक्तम् । छन्दसां
प्रतिपादयित्री छन्दोविचितिः । ग्रहगणितं ज्योतिषम् । अलङ्कार- 10
व्याख्यानं तु पुरस्तात् ।
पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति
चत्वारि शास्त्राणि । तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टाद-
शधा । यदाहुः—
“सर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः । 15
जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥”
“पुराणप्रविभेद एवेतिहासः” इत्येके। स च द्विधा परि(र)क्रियापु-
राकल्पाभ्याम् । यदाहुः—
“परि(र)क्रिया पुराकल्प इतिहासगतिर्द्विधा ।
स्यादेकनायका पूर्वा द्वितीया बहुनायका ॥” 20
तत्र रामायणं भारतं चोदाहरणे । आन्वीक्षिकीं तु विद्यावसरे
वक्ष्यामः । निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा ।
सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च । अष्टादशैव
श्रुत्यर्थस्मरणात्स्मृतयः । “तानीमानि चतुर्दश विद्यास्थानानि, यदुत
वेदाश्चत्वारः, षडङ्गानि, चत्वारि शास्त्राणि” इत्याचार्याः। तान्येतानि 25
कृत्स्नामपि भूर्भुवःस्वस्त्रयीं व्यासज्य वर्तन्ते । तदाहुः—
“विद्यास्थानानां गन्तुमन्तं न शक्तो
जीवेद्वर्षाणां योऽपि साग्रं सहस्रम् ।
१ A B. वेदार्थानवगतिः.