सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 293, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 293

238 EXPLANATORY NOTES
दानवास्तु विप्रचित्तिः शम्भरो नमुचिस्तथा ।
पुलोमादयोऽथ दैत्या हिरण्याख्यो विरोचनः ॥
बाणो हिरण्यकशिपुर्बलिप्रह्लादकादयः ।
अथासुरा वृषपर्वबलवृत्रादयः स्मृताः ॥
स्त्रीणामक्ष्णः कटाक्षाणां शुक्लता कृष्णताऽथवा ।
कृष्णताप्यथवा शुक्लश्यामता शुक्लकृष्णता ॥
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता ।
मनोभवस्य मूर्त्तत्वममूर्त्तत्वं च वर्ण्यते ॥
देवदेवीस्थितिं विद्यान्नायिकानायकक्रमम् ।
स्वभावान् सर्वजीवानां व्यवस्था देशकालयोः ॥
अमर—काव्यकल्पलतावृत्ति—द्वितीयप्रतान pp. 30–31.
असतोऽपि निबन्धेनानिबन्धेन सतोऽपि वा ।
नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥
असतोऽपि निबन्धो यथा—
रत्नानि यत्र तत्राद्रौ हंसास्त्वल्पजलाशये ।
जलेभायं नभोनद्यामम्भोजातं नदीष्वपि ॥
तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता ।
अञ्जलिग्राह्यता कुम्भोपवाह्यत्वं शशित्विषः ॥
शुक्लत्वं कीर्त्तिहासादौ कार्ण्यं चाकीर्त्तिपापयोः ।
प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥
विभावर्यां भिन्नतटाश्रयणं चक्रवाकयोः ।
ज्योत्स्नापानं चकोराणां चतुष्करत्वं पयोनिधेः ॥
सतोऽप्यनिबन्धो यथा—
वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने ।
अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ॥
कामिदन्तेषु कुन्दानां मुकुलेषु च रक्तता ।
हरितत्वं दिवा नीलोत्पलानाञ्च विकासिता ॥
वर्णयेन्न सदप्येतन्नियमोऽथ प्रकाश्यते ।
नियमो यथा— भूर्जत्वग्धिमवत्येव मलये ह्येव चन्दनम् ॥
सामान्यग्रहणे शौक्ल्यं छत्राम्भःपुष्पवाससाम् ।
कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम् ॥
रक्तत्वं रक्तबन्धूकबिम्बाम्भोजविवक्षताम् ।
तथा वसन्त एवान्यपुष्टानां कलकूजितम् ॥
वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् ।
नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते ॥
नियमविशेषो यथा— कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु ॥