काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 292, कुल 381 में से
संदर्भ में पढ़ेंरवं नाट्यं मयूराणां वर्षास्वेव विवर्णयेत् ।
नियमस्य विशेषोऽन्यः कश्चिदत्र प्रकाश्यते ॥
शुभ्रमिन्द्रद्विपं ब्रूयात्त्रीणि सप्त चतुर्दश ।
भुवनानि चतस्रोऽष्टौ दश वा ककुभो मताः ॥
जिनसेन अलङ्कारचिन्तामणि—pp. 7 & 8.
असतोऽपि निबन्धेनानिबन्धेन सतोऽपि च ।
नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥
असतोऽपि निबन्धो यथा—
रत्नादि यत्र तत्राद्रौ हंसाद्यल्पजलाशये ।
जलेभार्थं नभोनद्यामम्भोजातं नदीष्वपि ॥
तिमिरस्य तथा मुष्टिग्राह्यं सूचीविभेद्यताम् ।
अञ्जलिग्राह्यता कुम्भोपवाह्यत्वे विधुत्विषः ।
शुक्लं कीर्त्तिहासादौ कार्ण्यं दुष्कीर्त्यघादिषु ।
प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥
विभावर्यां भिन्नतटाश्रयणं चक्रवाकयोः ।
ज्योत्स्नापानं चकोराणां वर्णयेदसद्प्यदः ॥ चतुर्भिः कलापकम् ।
सतोप्यनिबन्धो यथा—
वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने ।
अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ॥
कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तताम् ।
प्रियङ्गुपुष्पे पीतत्वं सरोजमुकुलादिषु ॥
हरितत्वं दिवा नीलोत्पलानां स्मेरता दिवा ।
शेफालिकासुमे भ्रंशं वर्णयेन्न सदप्यदः ॥ त्रिभिर्विशेषकम् ।
नियमो यथा—
मुक्तास्ताम्रपर्ण्यामेवाब्धिष्वेव मकरानपि ।
भूर्जद्रून् हिमवत्येव मलये ह्येव चन्दनम् ॥
सामान्यग्रहणे वारिमुचां कृष्णत्वमेव हि ।
रक्तत्वमेव रत्नानां पुष्पाणां शौक्ल्यमेव च ॥
तथा वसन्त एवान्यभृतानां ध्वनितोद्भवम् ।
वर्षास्वेव मयूराणां रुतं नृत्तं च वर्णयेत् ॥ त्रिभिर्विशेषकम् ।
नियमविशेषो यथा—
नीलकृष्णयोर्हरितकृष्णयोः श्यामकृष्णयोः ।
पीतपाटलयोः शुक्लाङ्गारयोर्नागसर्पयोः ॥
महार्णवसागरयोः क्षीरक्षारसमुद्रयोः ।
कमलासम्पदोः कामध्वजे मकरमत्स्ययोः ॥
द्वादशानामप्यर्काणां वार्ध्यग्निदृग्जचन्द्रयोः ।
चन्द्रे शशैनयोर्विष्णौशेषकूर्मादिकस्य च ॥
नारायणदामोदरमाधवप्रभृतेरपि ।
दानवासुरदैत्यानामैक्यमेवाभिसम्मतम् ॥ चतुर्भिः कलापकम् ।