सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 157, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 157

१०२ काव्यमीमांसायाम्

एर्वारुकं स्फुटननिर्गतगर्भ गन्ध-
मम्लीभवन्ति च जरत्रपुसीफलानि ॥
गेहाजिरेषु नवशालिकणावपात-
गन्धानुभावसुभगेषु कृषीवलानाम् ।
5 आनन्दयन्ति मुसलोल्लसनावधूत-
पाणिस्खलद्वलयपद्धतयो वधूट्यः ॥
तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्तां
10 कामी दरिद्र इव शोषमुपैति पङ्कम् ॥
नद्यो वहन्ति कुटिलक्रमयुक्तशुक्ति-
रेखाङ्कबालपुलिनोदरसुप्तकूर्माः ।
अस्यां तरङ्गितनुतोयपलायमान-
मीनानुसारिबकदत्तकरालफालाः ॥
15 अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः
पतत्कुररकातरभ्रमददभ्रमीनार्भकः ।
लुठत्कमठसैकतश्वलबकोटवाचाटितः
सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥”
शरत् ॥
20 “द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु ।
पञ्चषफलिनीकुसुमो जयति हिमर्तुर्नवावतरः ॥
पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः ।
वक्त्रोल्लसत्कुङ्कुमसिक्र्थकाङ्काः सुगन्धतैलाः कबरीर्वहन्ति ॥
यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः ।
25 तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥
वराहवघ्राणि नवौदनानि दधीनि सन्नद्धशराणि चात्र ।
सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥


पाद-टिप्पणी (Footnotes):
१ V चित्तं. २ V मेघः. ३ V दन्त. ४ V सिक्तकाङ्काः. ५ B वर्ष्मा. A घ्राणि.
६ V ०रसानि.