सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 156, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 156

कविरहस्ये अष्टादशोऽध्यायः । १०१
चलच्चटुलचातकः कृतकुरङ्गरागोदयः
सदर्दुररवोद्यमो मदभरप्रगल्भोरगः ।
शिखण्डिकुलताण्डवामुदितमद्गुकङ्काहयो
वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥
दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५
धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः ।
कदम्बकलुषाम्बरः कलितकेतकीकोरक-
श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः ॥”
वर्षाः ॥
“१द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । १०
शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥
सा भाति पुष्पाणि २निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु ।
शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥
सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति ।
कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ १५
उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि ।
मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति ॥
क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः ।
शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥
अभ्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । २०
३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि ॥
महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् ।
दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥
व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही ।
भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥ २५
केदार एव कलमाः परिणामनम्राः
प्राचीनमामलकमर्हति पाकनीलम् ।
१ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे-
भवीथी दिवि सावदारा. ४ V B & V C जीर्णाब्जखण्डानि.