काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)
Kavyalankara of Acharya Bhamaha with Commentary
आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा
पृष्ठ 36, कुल 230 में से
संदर्भ में पढ़ेंFIRST PARICCHHEDA 23
by M. Ramakrishna Kavi, Venkateswara Research
Institute, Tirupati.
Page 290. द्विपदगं प्रबन्धः ।
त्रयो गणा गुरुश्चान्ते प्रथमेऽथ तृतीयेके ।
द्वितीये च तुरीये च द्वौ गणौ द्वौ गुरू तथा ॥
जगणो नात्र कर्तव्यो भागान्ते यमकं भवेत् ।
इति द्विपदगं नाम तस्योदाहृतिरुच्यते ॥
गातव्यः स्वरसंयुक्तः तालेन परिवर्जितः ।
प्रबन्धो द्विपदाभिख्यो गीतविद्याविशारदैः ॥ —सोमेश्वरः ।
द्विपदगस्य सारङ्गादिभेदाः सप्त वर्तन्ते ।
संगीतचूडामणौ स्पष्टं द्रष्टव्यम् ।
Page 290. द्विपदी—प्रबन्धः ।
शुद्धद्विपदिका पूर्वं पूर्णद्विपदिका ततः ।
मानवी चन्द्रिका चाथ धृतिस्तारस्ततः परम् ।
गेयमष्टप्रकारंयमस्या लक्ष्माथ कथ्यते ॥
अत्र भेदाः —शुद्धद्विपदी, पूर्णद्विपदी, मानवी, चन्द्रिका, स्मृतिः,
तारः, संचारिणी, मनोहारिणीति गम्यते ।
करणाख्येन तालेन गातव्यो गमकान्तरे ।
आभोगोऽनुपदैः कार्यो न्यासस्तालद्विमानतः ॥
द्विपदी च भवेदेवं ... ॥ —हरिपालः
Page 656. शम्या तालक्रिया ।
वामपाणितले पातो दक्षिणस्य करस्य यः ।
शम्येति सा निगदिता... —वेमः ।
Page 550. रासकः—प्रबन्धः ।
आदितालेन सहितो रहितो गमकैर्भवेत् ।
शेषो झोम्पटवद्रेयो रासकश्चेति लक्षितः ॥ —हरिपालः ।