सामग्री पर जाएँ
सर्वकोश
काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

पृष्ठ 183, कुल 230 में से

संदर्भ में पढ़ें
पृष्ठ 183

168 BHĀMAHĀLAṄKĀRA
सखि मानं प्रिये धेहि लघुतामस्य मा गमः ।
भर्तुश्छन्दानुवर्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥ १० ॥
उपासितगुरुत्वात्त्वं विजितेन्द्रियशत्रुषु ।
श्रेयसो विनयाधानमधुनाऽऽतिष्ठ केवलम् ॥ ११ ॥
यद्भिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते
पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥ १२ ॥
न शब्दपुनरुक्तं तु स्थौल्यादलोपवर्ण्यते ।
कथमक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते ॥ १३ ॥
भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।
यथाऽऽह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥ १४ ॥
अथार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते ।
उक्तस्य पुनराख्याने कार्यासंभवतो यथा ॥ १५ ॥
तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् ।
सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥ १६ ॥
श्रुतेः सामान्यधर्माणं विशेषस्यानुदाहृतेः ।
अप्रतिष्ठं यद्वेति तज्ज्ञानं संशयं विदुः ॥ १७ ॥
संशयमिति प्राहुस्तत्तस्तज्जननं वचः ।
इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥ १८ ॥
व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥ १९ ॥
यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः ।
तदपेतं विपर्यासादित्याख्यातमपक्रमम् ॥ २० ॥