सामग्री पर जाएँ
सर्वकोश
काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

पृष्ठ 182, कुल 230 में से

संदर्भ में पढ़ें
पृष्ठ 182

चतुर्थः परिच्छेदः ।
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥ १ ॥
देशकालकलालोकन्यायागमविरोधि च ।
प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च नेष्यते ॥ २ ॥
अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः ।
अर्थवान् वर्णसंघातः सुप्तिङन्तं पदं पुनः ॥ ३ ॥
पदानामेव संघातः सापेक्षाणां परस्परम् ।
निराकाङ्क्षं च तद्वाक्यमेकवस्तुनिबन्धनम् ॥ ४ ॥
क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते ।
बुद्धौ तु संभवत्येतदन्यत्वेऽपि प्रतिक्षणम् ॥ ५ ॥
धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः ।
वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥ ६ ॥
अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।
गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥ ७ ॥
समुदायार्थशून्यं यत्तदपार्थ कमिष्यते ।
दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥ ८ ॥
विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते ।
पूर्वापरार्थव्याघातात् विपर्ययकरं यथा ॥ ९ ॥