कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 340, कुल 361 में से
संदर्भ में पढ़ें४४ अथर्ववेदीय-कौशिकसूत्रस्य—
कण्डिका ॥ ५२ ॥
सू० १ ॥—आज्यं जुहोति । समिध आदधाति । पुरोडाशादि योज्यं सर्वत्र ।
सू० २ ॥—मन्थमभिमन्त्र्य पथिकाय प्रयच्छति स्वस्त्ययनकामः । भक्तमभि-
मन्त्र्य भक्षयति । समाप्ता ग्रामदूरगमनस्य शान्तिः । कलहदोषो न भवति । सू०
३ ॥—पुरुषबन्धने मोचनशान्तिरुच्यते “यस्यास्त”—इति चतुर्ऋचेन सूक्तेन
येन बद्धः तत्सदृशं सम्पातवन्तं कृत्वा सूक्तसदृशं द्वितीयं च सम्पातवन्तं करोति ।
यत्ते देवीति तृचेन सूक्तेन निगडयुगलद्वयं च सम्पातवन्तं करोति । “विषाणा-
पाशानि”ति चतुर्ऋचेन निगडयुगलद्वयं सम्पात्य एक मुक्तं निगडं चर्ममयं वा
लोहमयं वा येन बद्धस्तन्मयं कृत्वा अभ्यातानाद्युत्तरतन्त्रं । समाप्तं बन्धनमोचनं ।
सू० ४ ।—वाचा वन्धनस्य मोचनमुच्यते । भूमिलेखां सम्पात्य तत उत्तरतन्त्रम् ।
समाप्तं बन्धनस्वस्त्ययनं बद्धो अनेन कर्मणा कृतेन मुच्यते बन्धनात् । सू० ५ ॥
अग्निदाहरक्षार्थमुच्यते । उदकमभिमन्त्र्य गर्त्ते प्रक्षिपति···उदकपूरणं करोति ।
सू० ६।—शालामध्ये द्वयो उदकमभिमन्त्र्य गर्त्ते प्रक्षिपति । अग्निरक्षा भवति । सू०
७ ।—अग्न्युपसर्गे एतत्कर्म । सू० ८ ।—आयन इति सूक्तेन दिव्यमभिमन्त्र्य
गृह्णाति दिव्ये शुद्धयति तत्समापके दिव्ये । सू० ९ । अङ्गदग्धं उदकमभिमन्त्र्य
प्रक्षालयति । अङ्गारोग्यं भवति अङ्गे अग्निरक्षा । समाप्तानि अग्निदाहरक्षाणि । सू०
१० ।—नावापैटकपट्टिकादिस्वस्त्ययनार्थोदकतरणार्थो रक्षा उच्यते ॥ नावादि अभि-
मन्त्र्य ततश्चटन्ति उपविशन्ति । न कदाचिन्मज्जति क्वचित् । उदकरक्षार्थे दूरदेश
गमने ॥ ११॥ सम्पातवतीं तृचेन नावं सम्पात्य । तत उत्तरतन्त्रं । समाप्तं दूरदेश
गमने एतत्कर्म । तृचेन नौमणिं सम्पात्याभिमन्त्र्य·· नाविकेभ्यो बध्नाति । ये नावं
चटन्ति तेषां बन्धनं । सू० १२ ॥--अथ नष्टे द्रव्ये लाभकर्म उच्यते । उत्थापयति
नष्टनिरीक्षणार्थे ॥ सू० १४ ॥—समाप्तं नष्टलाभकर्म ॥ १५ ॥ नमस्कृत्य द्यावा
पृथिवीभ्यामित्येकां जपित्वार्थसूक्तं कुर्वीत स्वस्त्ययनकामः । केचित्स्वस्त्ययन
कामोपस्थानं···॥ सू० १६ ॥ सप्तप्रतीको अंहोलिङ्गगणः । एकैकस्य प्रतीकस्य
होमः । त्रयोदश हविर्भिः प्रतीकविकल्पः । भोजनमभिमन्त्र्य पाययति स्वस्त्ययन-
कामः । भक्षं भक्षयति । हविराज्यसमिधादि जुहोति ।···आप्लवनावसेचनाचमनादीनि
यथासंभवं कर्त्तव्यानि । पापसंसर्गे व्याधिसंसर्गे वर्णसंसर्गे अन्यस्मिन्पापे स्वस्त्य-
यनं । अंहोलिङ्गेन विकल्पेन···हृदयमालभ्य जपं कृत्वा उपस्थानमादित्यस्य कुर्यात्
तेनैव सूक्तेन···अभिमर्शनं पुरुषस्य अन्यस्य वा·· वृक्षगृहस्त्रीपुरुषादीनां स्वस्त्य-
नं क्रियते । अभिमर्शनं कृत्वा उपस्थानमादित्यस्य कुर्यात् ॥ १७॥ हविरभिमंत्र्य
भक्षयति ।···स्वयमभिमंत्रणं करोति स्वयं हविषां भोजनमिति वचनात् ॥ यत्र
क्वचिच्छान्तिः क्रियते तत्र सर्वत्र स्वस्त्ययनहोमं कुर्यात् । गृहे नगरे वा बहिर्वा पत्त-