सामग्री पर जाएँ
सर्वकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 341, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 341

संक्षिप्तटीकासङ्ग्रहः । ४५
ने वा ग्रामे पुरे वा सर्वत्र । समाप्तानि स्वस्त्ययनानि । सू० १८ ।—आयुष्यकर्मणां
विधि वक्ष्यामः ॥ सू० १९ ।—स्थालीपाकेन घृतपिण्डत्रयं कृत्वा सम्पात्याभिमंत्र्य
घृतमश्नाति स्थालीपाकमश्नाति । सू० २१ ।—हिरण्यमणि युग्मकृष्णलं···त्रिगुणं
कृत्वा सम्पात्याभिमंत्र्य बध्नाति । स्थालीपाके स्थापयित्वा स्थालीपाकमश्नाति ।
केचित्स्थालीपाके सम्पातं न कुर्वन्ति । अथ क्रमेण “यथाद्यौरि”त्यादि गोदान-
मध्ये पठितं प्रथमं व्याख्यायते ।
कण्डिका ॥ ५३ ॥
सू० १ ।—अथ गोदानं सम्वत्सरे···यथाकुलधर्मेण वा कुर्यात् । सू० ८ ।—
मातत्यन्तेन शान्त्युदकेन त्रिरेवाग्निं···सू० ९ ।—माणवकं । सू० १३ ।—उत्तर
सम्पातान्दक्षिणतः सुहृदो हस्ते शकृत्पिण्डे आनयति । सू० १५-१६ ।—उदपात्रे
पोथिकां गुडूचीं च प्रक्षिप्य ततः सम्पातः । शकृत्पिण्डे दूर्वां कृत्वा ततः सम्पातः ।
शान्त्युदकमुष्णोदकं चैकधाराभिः समासिच्य । सू० १८ । “अदितिःश्मश्रु” इति
ओदनं ।
कण्डिका ॥ ५४ ॥
अत्र ब्राह्मणवाचनं वृद्धस्त्रीभिर्गीति च कारयेत् । सू० १ ।—अथ नापिताय
प्रैषं ददाति । सू० ३ ।—क्षुरं मार्जयित्वा नापिताय प्रयच्छति पुनर्वपनार्थं ।
सू० ८ ।—वेद्युपरि प्रदक्षिणमग्निमनुपरीणीय · सू० ९ ।—उपरिततं वस्त्रं गृह्णाति
कर्त्ता । सू० १० ।—परिधानवस्त्रेण उपरि आच्छादयति माणवकं । सू० ११ ।—
यथा इत्यादि प्रथमतॊ व्याख्यानं कृत्वा ततो गोदानं प्रारब्धम् । आयुष्यमंत्रा
आयुष्यकर्ममध्ये पठिताः । सू० १२ ।— आज्यं जुहोति ।···समिध आदधाति···
पालाशादयः । पुरोडाशं···पयः···ओदनं···पायसं···पशुं जुहोति···आवपति ।
सू० १३ ।—पितुर्मन्त्रा न मातुः । सू० १४ ।—परिदानानि । गोदानं समाप्तम् ।
सप्तमे पञ्चमी कण्डिका । सू० १५ ।— अथ चूडाकरणमुच्यते—सम्वत्सरे द्विसम्वत्सरे
वा गोदाने कृते पश्चाच्चूडाकरणं कार्यं पूर्वतन्त्रम् । शान्त्युदके तुभ्यमेवेति सूक्तमनु-
योजयेत् । यत्र वपनं पच्यते तत्र सर्वत्र गोदानविधानेन वपनं कुर्यादिति
दारिलमतम्···।
कण्डिका ॥ ५५ ॥
सू० १ ।-२ गर्भपञ्चमे गर्भाष्टमे । वर्षे कुर्यादिति पैठीनसिः । वसन्ते ब्राह्मणमु-
पनयीतेति च मीमांसायां । शान्त्युदके “आयातुमित्र” इति सूक्तमनुयोजयेत् ।
ततो अभ्यातानानि । ततः “आयातु मित्र” इति । “आयुर्दा” इति केचित् सूक्तेन