सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 82, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 82

कौषीतकिब्राह्मणम् — पृष्ठम् १४६ (XXVIII, 1, १–३, ४)

प्रजापतिर्ह यज्ञं ससृजे ।१। तेन ह॑ सृष्टेन देवा ईजिरे ।२। तेन हेड्वा सर्वान् कामानापुः
।३। तस्य हेतराद्ध्यर्धमपनिदधुः² ।४। य एते प्रैषाश्च निगदाश्च ।५। अथेतरेण यज्ञेन
ऋषय ईजिरे ।६। ते ³-ह विजिज्ञुः-³ ।७। असर्वैण ह वै यज्ञेन यजामह॑ न वै सर्वान् कामा-
नाप्नुम इति ।८। ते ह श्रेमुः ।९। त एते॑ प्रैषाँश्च॑ निगदाँश्च ददृशुः ।१०। तेन ह॑ सप्रैषेण
सनिगदेनेष्ट्वा सर्वान् कामानापुः ।११। एतावन्तं ह वा उ प्रैषाश्च निगदाश्च ।१२।
यद्गभिर्यज्ञस्यानाप्तं तदेभिः सर्वमाप्स्याम इति ।१३ ॥१॥


पादटिप्पण्यः (१):
¹ ER. omits      ² L. P. ०म्पु०      ³-³ L. P. हविर्ज्ञ्जुः      ⁴ L. P. ०महे      ⁵ L. P. एतान्
⁶ BM¹. omits च      ⁷ BM². हि      ⁸ L. P. एते ह तै; L. (var.) as here

तानेतान् प्रैषानुपप्रैषान्¹ विश्वामित्रो ददर्श ।१। अथो पुरोळाशप्रैषान् ।२। अथैतर ऋषय
इतरान् ।३। तदाहुः कस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यतीति ।४। एता ह वै देवताः
प्रैषाणामाजिमीयुः ।५। तन्मित्रावरुणा² उज्जग्यतुः ।६। तस्मान्मैत्रावरुण एव सर्वेभ्यः
प्रेष्यति ।७। स वै तिष्ठन् प्रेष्यति ।८। तिष्ठन् वै वीर्यवत्तमः ।९। तिष्ठन्नाश्रुतवदनतमः³
।१०। वीर्यवतौमाश्रुतां देवेषु वाचमुद्यासमिति⁴ ।११। कुवक्रं⁵ इव प्रणतोऽनुब्रूयात् ।१२।
तथा ह वर्षुकः पर्जन्यो भवतीति ह स्माह कौषीतकिः ।१३। तद्ध स्म वै पुरासुररक्षांसानि⁶
हवींषि विमथ्नते⁷ ।१४। तत एता वामदेवोऽभिरूपा अपश्यदग्निर्होता नो अध्वर इति ।१५।
ताभिर्हाग्निं परिनिन्युः⁸ ।१६। ततो वै तानि रक्षांसि नाष्ट्रा अपजघ्निरे⁹ ।१७। जुषस्व
सप्रथस्तममिति जुष्टवतीमभिरूपामन्वाह ।१८। जुष्टवतीमभिरूपां देवेषु वाचमुद्यासमिति
।१९। इमं नो यज्ञममृतेषु धेहीति¹⁰ ।२०। स्तोकानेवैताभिरग्रये स्वदयति ।२१। एता ह वा
उ तेषां पुरोनुवाक्या एता याज्याः ।२२। तस्मादभिरूपा भवन्ति ।२३ ॥२॥


पादटिप्पण्यः (२):
¹ IO. प्रैषान्      ² L. तां मि०; P. तान् मि०      ³ L. तिष्ठन् वा उ श्रुत०; P. तिष्ठन् वा
उ श्रित०      ⁴ L. P. Here ends Khaṇḍa 1      ⁵ P. ॐ वक्रं      ⁶ L. P. ०रक्षांसि
⁷ L. P. विबध्नते; L. (var.) विमन्थते, and as here      ⁸ L. P. परिनिन्युः; L. (var.) ०णिण्युः;
wrongly reports that IO. reads परिनिन्युः      ⁹ L. P. ०जज्ञिरे      ¹⁰ L. P. add विश्वामित्रः

वैश्वामित्रीं पुरोळाशस्विष्टकृतः पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणम् ।१। वैश्वा-
मित्रीरनुसवनं पुरोळाशानां पुरोनुवाक्या¹ अन्वाह ।२। विश्वामित्रो ह्येतान् पुरोळाश-
प्रैषान् ददर्श सलोमतायै ।३। माधुच्छन्दस्यानुभिरूपे द्विदेवत्यानां प्रथमस्य पुरोनुवाक्ये


अच्छावाकीयम् — पृष्ठम् १४७ (XXVIII, 3, ५–4, ७)

अन्वाह ।४। मधुच्छन्दा² ह्येतान् द्विदेवत्यप्रैषान्³ ददर्श सलोमतायै ।५। गार्त्समदीं च
मैधातिथीं चोत्तरयोरभिरूपे अन्वाह ।६। मेधातिथीः प्रातःसवन उन्नीयमानेऽभ्योऽन्वाह
।७। मेधातिथिर्ह प्रातःसवन इन्द्राय सोमं प्रोवाच ।८। ता वा आवत्यो हरिवत्यो भवन्ति
पुरोनुवाक्यानुरूपेण ।९। ता वा ऐन्द्र्यो भवन्ति ।१०। ऐन्द्रो हि यज्ञक्रतुः ।११। ता वै
गायत्र्यो भवन्ति ।१२। गायत्रं प्रातःसवनम् ।१३। ता वै नवान्वाह ।१४। नव न्वा अत्र
चमसानुन्नयन्ति⁵ ।१५। षळु हैके प्रातःसवन उन्नीयमानेभ्योऽन्वाहूः ।१६। स्वयमच्छा-
वाकः सप्तमीम् ।१७। सप्त समोत्तरयोः सवनयोः ।१८। सप्त वै प्राञ्च आसीना वषट्-
कुर्वन्तीति वदन्तः ।१९। ⁶-तद् वै खलु-⁶ यथासूक्तमेवानुब्रूयात् ।२०। होतुह्येवैताः पुरो-
नुवाक्या भवन्ति ।२१। होतुर्ह्येवानुचमसमेताँश्चमसानुन्नयन्ति⁸ ।२२। अथ होत्राः संथ-
जन्ति ।२३। ⁹-यजमानमेव तदनूगतायै संप्रमुञ्चन्ति-⁹ ।२४। मित्रं वयं हवामह इति
मैत्रावरुण्या मैत्रावरुणः स्वयैव¹⁰ देवतया ।२५। यज्ञमुखस्यानवराध्यै ।२६। इन्द्र त्वा
वृषभं वयमित्यैन्द्र्या ब्राह्मणाच्छंसी ।२७। ऐन्द्रो हि यज्ञक्रतुः ।२८। मरुतो यस्य हि
क्षय इति मारुत्या पोता ।२९। यत्र ह तदिन्द्रं मरुतः पुपुवुः ।३०। तदेनानिन्द्रः सोमपी-
थेऽन्वाभजे ।३१। तस्मात् स मारुत्या पोता प्रथमतश्चानन्ततश्च यजति ।३२। अग्रे पत्नी-
रिहा वहेत्याग्निपात्नीवत्या त्वष्ट्रमत्या नेष्टा¹¹ ।३३। ¹²-त्वष्टा वै-¹² देवांनां पत्नीवतो
नेष्टुर्विजाम् ।३४। तस्मात् स आग्निपात्नीवत्या त्वष्ट्रमत्या नेष्टा प्रथमतश्चानन्ततश्च यजति
।३५। उक्षानाय वशानायेत्याग्नेय्याग्नीध्रः ।३६। अग्निं¹³ हि¹⁴ स समिन्धे ।३७। तस्मात्
स आग्नेय्याग्नीध्रः प्रथमतश्चानन्ततश्च यजति¹⁵ ।३८ ॥३॥


पादटिप्पण्यः (३):
¹ P. ०वाक्ये      ² BM². माधु०; ER. EM. (var.) मधुच्छन्दो      ³ ER. पुरोळाशप्रैषान्
⁴ P. मेधा०      ⁵ L. P. Here ends Khaṇḍa 2      ⁶-⁶ L. P. तदु वा आहुः; L. (var.) as here
⁷ L. wrongly reports IO. reading as यथासूक्तमनुब्रूयात्      ⁸ L. P. होतुह्येवैताँश्चमसानुचम-
समुन्नयन्ति; and add तस्माद्यथासूक्तमेवानुब्रूयात्      ⁹-⁹ L. P. तासामुक्तं ब्राह्मणं      ¹⁰ L. P.
स्वया; L. (var.) as here      ¹¹ L. P. add प्रथमतश्चानन्ततश्च यजति      ¹²-¹² L. P. अग्निवै;
L. (var.) as here      ¹³ L. P. अग्नीन्      ¹⁴ L. P. ह      ¹⁵ L. P. add अनुवषट्कुर्वन्त्या-
हुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै अथैषाय होतुचमसतस्त्योक्तं ब्राह्मणम् ॥३॥

अथ यत्र ह तन्नाभानेदिष्ठो मानवोऽङ्गिरःसूपहवमीषे¹ ।१। स एतां होत्रामच्छावा-
कीयां² प्रोवाच³ ।२। स वा उपहूतायामिळायामाजगाम⁴ ।३। तस्मात् तन्न प्रवृणते⁵ ।४।
स वा एतस्मात् पूर्वस्मादुत्तरादवान्तरदेशादाजगाम⁶ ।५। तस्मादेतस्यां ⁷-दिश्यासीनो
ऽच्छावाक उपहवमिच्छते-⁷ ।६। तदाहुः कस्मादच्छावाकाय पुरोळाशशकलं परिहरन्तीति