कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 81, कुल 119 में से
संदर्भ में पढ़ेंपृष्ठम् १४४ (XXVII, 10, १२–11, २६ / कौषीतकिब्राह्मणे)
एवं शालायै ।१२। ते यथाप्रपन्नमुपनिष्क्रम्य ⁶⁻मार्जालीयन्त्वन्तेन नक्षत्रेषु चक्षुर्विंसृजन्ते
⁶⁻तच्चक्षुर्देवहितं शुक्रमुच्चरदिति⁻⁶ ।१३। ज्योतिर्वे नक्षत्राणि ।१४। ज्योतिरेव तदात्मन्
दधते⁹ ।१५। ते परया द्वारा हविर्धाने प्रपद्यन्ते ।१६। अथाध्वर्युरुत्तरस्य हविर्धानस्य
कूबरीमभिपद्याह सत्रस्यर्धिं गायेति ।१७। गायति सत्रस्यर्धिम् ।१८। तत् सत्रस्यर्धि-
माप्नुवन्ति ।१९। सर्वे साम्नो निधनमुपयन्ति ।२०। प्रतिष्ठा वै निधनं प्रतिष्ठित्यै एव
।२१। त ¹⁰⁻उत्तरेण हविर्धाने गच्छन्त्यधोक्षं वोत्तरस्यैन्द्रोमतिच्छन्दसं ⁻¹⁰ जपन्तः ।२२।
अतिच्छन्दसैव तदधोक्षं¹¹ पाप्मानमपघ्नते ।२३ ॥१०॥
पादटिप्पणी:
¹⁻¹ L. P. वाग्यताः संमील्यासत ² L. P. omit भूतानि ³ L. P. वाचंयमा ⁴ L. P. आसत ⁵ L. P. वाचमम्या° ⁶⁻⁶ L. P. omit ⁷ BM¹. दीक्षितो ⁸ BM¹. वेदयेंति ⁹ P. धत्ते ¹⁰⁻¹⁰ L. P. उत्तरस्य हविर्धानस्याधोक्षं सर्पन्त्यैन्द्री ¹¹ L. P. add यजमानाः
ते न्वा¹ उ वयमुत्तरेणैव हविर्धाने² परीमेति³ ह स्माह कौषीतकिः ।१। यज्ञस्यानु-
संचरं समर्षिभ्योऽनन्तर्हिता⁴ इति ।२। तेऽग्रेण हविर्धाने समुपविश्य कामं⁵ ध्यायन्ति⁶
⁷⁻यं यमिच्छन्ति⁻⁷ ।३। स उ हैभ्यः कामः समृध्यते ।४। ⁸⁻अथ य उ⁸⁻ बहुकामा भवन्ति
।५। भूर्भुवः स्वरित्येतास्ते व्याहृतीर्जपन्ति⁹ ।६। ते प्राञ्च उदञ्च उत्क्रम्य वाचं निह्व-
यन्ते¹⁰ ।७। नेद् वाक् पराच्यसदिति ।८। ¹¹⁻वाचमेव तदात्मन् दधते⁻¹¹ ।९। सुब्रह्मण्या¹²
वाचं विसृजन्ते¹⁰ ।१०। ब्रह्म वै सुब्रह्मण्या ।११। ब्रह्मणैव तद् वाचं विसृजन्ते ।१२। त
आग्नीध्रे¹³ सह राज्ञा संविशन्ते ।१३। तद् यथा राजानं वा राजमात्रं वा श्रान्तं वेश्म प्रपा-
दयेयुः ।१४। एवमेवैतत् सोमं राजानमहरहर्हविर्धानाभ्यामुपाह्वत्याग्नीध्रं¹⁴ प्रपादयन्ति
।१५। त आग्नीध्रे¹³ सह राज्ञा संविशन्ते¹⁵ ।१६। अथ यत् समूळ्हं दशरात्रमुपयन्ति ।१७।
सर्वेषामेव कामानामाप्त्यै ।१८। अथ यद् व्यूळ्हमुपयन्ति ।१९। सर्वेषामेव छन्दसामाप्त्यै
।२०। अथ यद् व्यूळ्हसमूळ्हा उपयन्ति ।२१। दशरात्रस्यैव नानात्वाय ।२२। समूळ्ह
उ हैवाग्र आस ।२३। तानि छन्दांस्यन्योन्यस्य स्थानमभिदध्युः ।२४। सर्वाणि प्रथमानि
स्याम सर्वाणि मध्यमानि सर्वाण्युत्तमानीति¹⁶ ।२५। अथो सर्वाण्येवैतच्छन्दांसि सर्वसवन-
भाञ्जि कुर्वन्ति¹⁷ ।२६ ॥११॥
पादटिप्पणी:
¹ P. नु वा ² L. P. omit; L. (var.) as here ³ L. P. परीम इति ⁴ L. P. सप्त ऋषिभ्यो° ⁵ L. P. कामान् ⁶ L. P. ध्यायन्ते ⁷⁻⁷ L. P. यत्कामा भवन्त्ययं नः कामः समृद्ध्यतामिति ⁸⁻⁸ L. P. ये ⁹ L. P. ०र्जपेयुः ¹⁰ L. विह्वयन्ते; P. विह्नयन्ते ¹¹⁻¹¹ L. P. omit ¹² L. P. ०ण्यायै ¹³ L. P. आग्नीधीये ¹⁴ L. ०वहृत्या० ¹⁵ L. P. Here ends Khaṇḍa 6 ¹⁶ L. P. omit इति ¹⁷ L. P. करोति
पृष्ठम् १४५ (दशममहः / XXVII, 12, १–१०)
गायत्रप्रातःसवनः प्रथमस्त्यहस्त्रिष्टुब्मध्यंदिनो जगत्तृतीयसवनः ।१। जगत्प्रातःस-
वनो द्वितीयस्त्यहो गायत्रमध्यंदिनस्त्रिष्टुप्तृतीयसवनः ।२। त्रिष्टुप्प्र्रातःसवनस्तृतीयस्त्यहो
जगन्मध्यंदिनो गायत्रतृतीयसवनः ।३। गायत्रप्रातःसवनं दशममहः ।४। तत् समा-
नाच्छन्दसः समानं छन्द उपसंगच्छन्ते ।५। अथ यद् दशममहरनुष्टुभमभिसंपादयति¹
।६। वाग् वा एतदहः ।७। वागनुष्टुप् ।८। वाच्येव तद् वाचं प्रतिष्ठापयन्ति ।९। तेऽमृतत्व-
माप्नुवन्ति ये दशममहरुपयन्ति ये दशममहरुपयन्ति² ।१० ॥१२॥
पादटिप्पणी:
¹ L. P. ०यन्ति ² L. P. Here ends Khaṇḍa 7
इति तृतीयदशके सप्तमोऽध्यायः