सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 59, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 59

XXI, 1, १-२, २४ कौषीतकिब्राह्मणे 100

देवा वै मृत्युं पाप्मानमपजिघांसमाना ब्रह्मणः सलोकतां सायुज्यमीप्सन्त एतमभिप्लवं
षडहमपश्यन् ॥१॥ त एतेनाभिप्लवेनाभिप्लुत्य मृत्युं पाप्मानमपहृत्य ब्रह्मणः सलोकतां
सायुज्यमापुः ।२। तथो एवैतद् यजमाना एतेनैवाभिप्लवेनाभिप्लुत्य मृत्युं पाप्मानमपहृत्य
ब्रह्मणः सलोकतां सायुज्यमाप्नुवन्ति ।३। त एतेन पूर्वेण त्र्यहेणाभिप्लुत्य गवा चतुर्थं
ऽहन्नयतन्त^१ गमनायैव ।४। आयुः पञ्चममहरुपायन्त्सवार्यायैव ।५। ज्योतिः षष्ठमहः
पुनः परस्तात् पर्यास्यन् मृत्योरेव पाप्मनो नान्ववायनाय^२ ।६। गां चतुर्थमहरुपयन्ति ।७।
तस्य तान्येव छन्दोरूपाणि यानि चतुर्थस्याह्नः ।८। होताजनिष्ट चेतन इत्याज्यं जातवत्
।९। जातवद् वै चतुर्थस्याह्नो रूपम् ।१०। मेधातिथिः प्रउगः ।११। बृहद् वै साम सृज्य-
मानं मेधातिथिः प्रउगोऽन्वसृज्यत ।१२। तद् रूपेण कर्म समर्धयति ।१३। एतद् वा
आर्धुकं^३ कर्म यद् रूपसमृद्धम् ।१४। जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयं जातवत्
।१५। जातवद् वै चतुर्थस्याह्नो रूपम् ।१६। उग्रो जज्ञे वीर्याय स्वधावानिति निष्के-
वल्यं जातवत् ।१७। जातवद् वै चतुर्थस्याह्नो रूपम् ।१८ ॥१॥


^१ L. ॰हन्त्यजन्त; (var.) as here; P. ॰हन्नयजन्त      ^२ L. P. Here ends Khaṇḍa 1
^३ L. P. आर्धुकं

तद् देवस्य सवितुर्वार्थं महदिति सावित्रम् ।१। अजीजनत् सविता सुम्नमृक्यमिति
जातवत् ।२। जातवद् वै चतुर्थस्याह्नो रूपम् ।३। ते हि द्यावापृथिवी विश्वशंभुवेति द्यावा-
पृथिवीयम् ।४। सृजन्मनी धिषणे अन्तरीयत इति जातवत् ।५। जातवद् वै चतुर्थस्याह्नो
रूपम् ।६। अनश्वो जातो अनभीशुरुक्य इत्यार्भ्रवं जातवत् ।७। जातवद् वै चतुर्थस्याह्नो
रूपम् ।८। अग्निरिन्द्रो वरुणो मित्रो अर्यमेति वैश्वदेवम् ।९। यज्ञं जनित्वी तन्वी नि
मामृजुरिति जातवत् ।१०। जातवद् वै चतुर्थस्याह्नो रूपम् ।११। वैश्वानराय ^१-पृथुपाजसे
विप^१ इति वैश्वानरीयम् ।१२। तस्मिन्त्सृणानि यजमान आ चक इत्यावत् ।१३। आवद्
वै चतुर्थस्याह्नः प्रायणीयरूपम् ।१४। पुनःप्रायणीयं हि चतुर्थमहः ।१५। जात आपूणो
भुवनानि रोदसी इति जातवत् ।१६। जातवद् वै चतुर्थस्याह्नो रूपम् ।१७। प्र ये शुम्भन्ते
जनयो न समन इति मारुतं जातवत् ।१८। जातवद् वै चतुर्थस्याह्नो रूपम् ।१९। जनस्य
गोपा अजनिष्ट जागृविरिति जातवेदसीयं जातवत् ।२०। जातवद् वै चतुर्थस्याह्नो रूपम्
।२१। अन्नं चतुर्थेनाह्नाप्नुवन्ति ।२२। चन्द्रमसं देवं देवतानाम् ।२३। दिशोऽधिभूतं श्रोत्र-
मात्मन् दधते ।२४ ॥२॥


^१-१ ER. धिषूणामृतावृध

<br>

101 अभिप्लवषडहः XXI, 3, १-4, ११

आयुः पञ्चममहरुपयन्ति ।१। तस्य तान्येव छन्दोरूपाणि यानि पञ्चमस्याह्नः ।२।
अग्न ओजिष्ठमा भरेत्याज्यम् ।३। प्र नो राया परीणसेति रायेति रयिमत् ।४। रयिमदिति
वा अस्य रूपम् ।५। अध्यासवत् तत् पङ्क्ते रूपम् ।६। संहार्यः प्रउगः ।७। रथन्तरं वै साम
सृज्यमानं संहार्यः प्रउगोऽन्वसृज्यत ।८। तद् रूपेण कर्म समर्धयति ।९। एतद् वा आर्धुकं^१
कर्म यद् रूपसमृद्धम् ।१०। क स्य वीरः को अपश्यदिन्द्रमिति मरुत्वतीयम् ।११। यो
राया वञ्ची सुतसोममिच्छन्निति रायेति रयिमत् ।१२। रयिमदिति वा अस्य रूपम् ।१३।
एतायामोप गव्यन्त इन्द्रमिति निष्केवल्यम् ।१४। गव्यन्त इति पशुमत् ।१५। पशुमदिति
वा अस्य रूपम् ।१६। उदु ष्य देवः सविता हिरण्ययेति सावित्रम् ।१७। घृतेन पाणी अभि
प्रुष्णुते मख इति घृतेनेति^२ पशुमत् ।१८। पशुमदिति वा अस्य रूपम् ।१९। घृतवती
भुवनानामभिश्रियेति द्यावापृथिवीयं घृतवत् तस्योक्तं ब्राह्मणम् ।२०। ^३-ततं मे अपस्तदु
तायते पुनरित्यार्भ्रवम्^३ ।२१। सुचेव घृतं जुहुवाम विद्मनेति घृतवत् तस्योक्तं ब्राह्मणम्^४
।२२। कथा देवानाम कतमस्य यामनीति वैश्वदेवम् ।२३। सहस्रा मेधसाताविव त्मनेति
सहस्रा इति पशुमत् ।२४। पशुमदिति वा अस्य रूपम् ।२५। पृक्षस्य वृष्णो अरुषस्य नू
सह इति वैश्वानरीयम् ।२६। अपामुपस्थे महिषा अगृभ्णतेति महिषा इति पशुमत् ।२७।
पशुमदिति वा अस्य रूपम् ।२८। प्र वः स्पळक्रन्त्सुविताय दावन इति मारुतम् ।२९।
गवामिव श्रियसे शृङ्गमूत्तममिति गवामिवेति पशुमत् ।३०। पशुमदिति वा अस्य रूपम्
।३१। चित्र इच्छिशोस्तरुणस्य वक्षथ इति जातवेदसीयम् ।३२। वाजिन्नत्याय सहस्रे
सुपिप्येति ^५-वाजिन्निति पशुमत् ।३३। पशुमदिति वा अस्य^५ रूपम् ।३४। अध्यासवत्
तत् पङ्क्ते रूपम् ।३५। पशून् पञ्चमेनाह्नाप्नुवन्ति ।३६। रुद्रं देवं देवतानाम् ।३७। यशो
ऽधिभूतं वीर्यमात्मन् दधते ।३८ ॥३॥


^१ L. P. आर्धुकं      ^२ L. P. घृतवद्धृतमिति      ^३-३ ER. reads तक्षन् रथं सुवृतं विचनापस इत्यार्भ्रवं तक्षन् हरी इन्द्रवाहा वृषण्वसू इति वृषण्वत्तस्योक्तं ब्राह्मणम्      ^४ IO. adds तस्योक्तं ब्राह्मणम्      ^५-५ L. P. वाजवत्तदेतस्याह्नो

ज्योतिः षष्ठमहरुपयन्ति ।१। तस्य तान्येव छन्दोरूपाणि यानि षष्ठस्याह्नः ।२। सखायः
सं वः सम्यञ्चमित्याज्यम् ।३। सखाय इति सर्वरूपम् ।४। सर्वरूपं वै षष्ठमहः ।५। तस्मात्
सखाय इति सर्वनेवाभिवदति^१ ।६। संहार्यः प्रउगः ।७। बृहद् वै साम सृज्यमानं संहार्यः
प्रउगोऽन्वसृज्यत ।८। तद् रूपेण कर्म समर्धयति ।९। एतद् वा आर्धुकं^२ कर्म यद् रूप-
समृद्धम् ।१०। महां इन्द्रो नृवदा चर्षणिप्रा इति मरुत्वतीयम् ।११। उरुः पृथुः सुकृतः कर्तृ-