सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 60, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 60

XXI, 4, १२-६, २० कौषीतकिब्राह्मणे 102
भिर्भूरिदिति निनर्तिः ३ ॥१२॥ अन्तः षष्ठमहः ॥१३॥ नीव वा अन्तं गत्वा नृत्यति ॥१४॥ कद्रचङ्
हि तत इयात् ॥१५॥ यो जात एव प्रथमो मनस्वानिति निष्केवल्यम् ॥१६॥ तस्य तदेवान्त-
रूपं यद् भूतानुवादि४ यो दासं वर्णमधरं गुहाकरिति ॥१७॥ यदेतद् भूतमिवाभि ॥१८॥
सोदर्कं भवति तद् द्वितीयमन्तरूपम् ॥१९ ॥४॥
१ L. P. °वानुवदति २ L. P. आधुकं ३ L. P. निनृत्तिः ४ L. (var.) भूतामिवादि
तद् देवस्य सवितुर्वार्थं महदिति सावित्रम् ॥१॥ दिवो धर्ता भुवनस्य प्रजापतिरिति ॥२॥
दिव इति तदमुष्य लोकस्य रूपम् ॥३॥ घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं
घृतवत् ॥४॥ सर्वदेवल्यं वै घृतम् ॥५॥ सर्वदेवत्यं १ षष्ठमहः ॥६॥ तस्माद् घृतवत् ॥७॥ किमु
श्रेष्ठः किं यविष्ठो न आजगन्न्नित्यार्षभवम् ॥८॥ श्रेष्ठो यविष्ठ इति निनर्तिः २ ॥९॥ अन्तः षष्ठमहः
॥१०॥ नीव वा अन्तं गत्वा नृत्यति ॥११॥ कद्रचङ् हि तत इयात् ॥१२॥ अबुध्रमु त्य इन्द्र-
वन्तो अग्नय इति वैश्वदेवम् ॥१३॥ तस्य तदेवान्तरूपं यत् सोदर्कम् ॥४॥ वैश्वानराय धिष-
णामृतावृध इति वैश्वानरीयम् ॥१५॥ घृतं न पूतमप्रये जनामसीति घृतवत् तस्योक्तं
ब्राह्मणम् ॥१६॥ धारावरा मरुतो धृष्ण्वोजस इति मारुतम् ॥१७॥ धारावरा इति निनर्तिः २
॥१८॥ अन्तः षष्ठमहः ॥१९॥ नीव वा अन्तं गत्वा नृत्यति ॥२०॥ कद्रचङ् हि तत इयात्
॥२१॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिरिति जातवेदसीयम् ॥२२॥ त्वं त्वमिति सप्रभृति ॥२३॥
यथा वै सोदर्कमेवं सप्रभृत्यन्तरूपम् ॥२४॥ अपः षष्ठेनाह्नाप्नुवन्ति ॥२५॥ प्रजापतिं देवं
देवतानाम् ॥२६॥ तेजोऽधिभूतममृतमात्मन् दधते ३ ॥२७ ॥५॥
१ P. adds वै २ L. P. निनृत्तिः ३ L. P. Here ends Khaṇḍa 4
तदाहुः कस्माद् वैश्वदेवान्येवान्वायात्यन्ते नैकदेवत्यानि न द्विदेवत्यानीति ॥१॥ नैक-
देवत्येन यातयामं भवति ॥२॥ न द्विदेवत्येन ॥३॥ वैश्वदेवेनैव यातयामं भवति ॥४॥
तस्माद् वैश्वदेवान्येवान्वायात्यन्ते ॥५॥ एतेषामेवाह्वां सबलतायै ॥६॥ १एतेषामभिप्लवाना-
मसमवीर्यताया इति ॥७॥ ज्योतिः प्रथममहरुपयन्ति ॥८॥ तस्यैवैकहस्य रूपेण ॥९॥ अयं
ह्येकाह उत्तरेषामह्वां ज्योतिः ॥१०॥ गां द्वितीयम् ॥११॥ गच्छन्ति ह्यानेन २ ॥१२॥ आयुस्तृ-
तीयम् ॥१३॥ यन्ति ह्यानेन २ ॥१४॥ अग्निष्टोमो प्रथमोत्तमे अहनी ॥१५॥ चत्वार्युक्थ्यानि
मध्ये ॥१६॥ ब्रह्मा वा अग्निष्टोमः ॥१७॥ पशव उक्थ्यानि ३ ॥१८॥ ब्रह्मणैव तत् पशुनुभयतः
परिगृह्यात्मन् दधते ॥१९॥ तेषां वा एतेषां चतुर्णांमुख्यानां४ सहस्रं स्तोत्रियाः ॥२०॥
103 अभिप्लवषडहः XXI, 6, २१-7, १२
साहस्त्राः पशवः ॥२१॥ प्र साहस्त्रं पोषमाप्नोति य एवं वेद ॥२२॥ पृष्ठ्यान्तान् वा इतश्च-
तुरश्चतुरोऽभिप्लवानुपयन्ति ॥२३॥ पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि ॥२४॥ पशुभिरेव
तच्छ्रियमुभयतः परिगृह्यात्मन् दधते ॥२५॥ पृष्ठ्यारम्भणान् वा ऊर्ध्वं विषुवतश्चतुरश्च-
तुरोऽभिप्लवानुपयन्ति ५ ॥२६॥ पशवो ६ वा अभिप्लवाः श्रीः पृष्ठ्यानि ॥२७॥ श्रियैव तत्
पशूनुभयतः परिगृह्यात्मन् दधते ॥२८॥ कूर्मो वा अभिप्लवः कूर्मच्छन्दाः ॥२९॥ यो वै
यज्ञऋतुः कूर्मच्छन्दा भवति ॥३० ॥६॥
1-1 L. P. ०नामयातयामतायै 2 L. P. ह्येनेन 3 P. उक्थानि 4 P. °मुख्यानां
5 L. विष्वजितः (for विषुवतः) 6 L. P. श्रीः 7 L. P. पशवः 8 L. P. Here ends
Khaṇḍa 5
सर्वजागतानि ह वै तस्य निविद्धानानि भवन्ति तृतीयसवने ॥१॥ तथा यथायथं निविदो
धीयन्ते ॥२॥ ता एनान् यथायथं धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथायथं
दधति ॥३॥ तद् यत् सर्वजागतानि तस्य' निविद्धानानि भवन्ति तृतीयसवने ॥४॥ तेनो यः
सर्वजगते तृतीयसवने कामः स उपाप्तः ॥५॥ यद्वेवैतास्तन्त्यास्तिस्रश्व उक्थप्रतिपदोऽहरहः२
शस्यन्ते ॥६॥ तेनो यः सर्वत्रैष्टुभे तृतीयसवने कामः स उपाप्तः ॥७॥ यद्वेवैषा तन्त्या गायत्र्य-
हरहः सुरूपकृन्नुः शस्यते ॥८॥ तेनो यः सर्वगायत्रे तृतीयसवने कामः स उपाप्तः ॥९॥ यद्वे-
वैष षडहः पुनःपुनरभिप्लवते ॥१०॥ तस्मादभिप्लवो नाम ॥११॥ अभिप्लवन्ते ह्यानेन स्वर्गाय
लोकाय यजमानाः स्वर्गाय लोकाय यजमानाः ४ ॥१२ ॥७॥
1 L. P. omit 2 L. P. omit उक्थप्रतिपदः 3 L. P. ह्येनेन 4 L. P. Here ends
Khaṇḍa 6
इति तृतीयदशके प्रथमोऽध्यायः