कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 54, कुल 119 में से
संदर्भ में पढ़ेंकौषीतकिब्राह्मणम् — अध्यायः १९ (XIX)
XIX, 1, १-२, १९ (पृष्ठम् ९०)
ते वै दीक्षिष्यमाणा अग्नीन्संनिवपन्ते ।१। एकधैव तद् बलं वीर्यं यजमाना॑ आत्मन्
दधते ।२। अथैतां संनिवपनीयामिष्टिं तन्वते ।३। तेऽग्नये ब्रह्मण्वतेऽष्टाकपालं पुरोळाशं
निर्वपन्ति ।४। अग्नये क्षत्रवत एकादशकपालम् ।५। अग्नये क्षत्रभृते द्वादशकपालम् ।६।
ब्रह्मक्षात्रे एव तद् यजमानाः समारोहन्ति ।७। ताभ्यामेवैतत् स्वस्ति संवत्सरं तरन्ति² ।८।
³⁻त एतेन³⁻ प्राजापत्येन पशुना यजन्ते ।९। प्रजापतिप्रसूताः स्वस्तिमं संवत्सरं समभ्र-
वामहा इति ।१०। तं⁴ हैके वायव्यं कुर्वन्ति ।११। एतद् वै प्रजापतेः प्रत्यक्षं रूपं यद् वायु-
रिति ।१२। अग्नय उ हैके कामाय कुर्वन्ति ।१३। अग्निर्वे कामो देवानामीश्वरः ।१४।
सर्वैषामेव देवानां प्रीत्यै ।१५। तस्य हैके वैश्वानरीयं पशुपुरोळाशं कुर्वन्ति ।१६। असौ
वै वैश्वानरो योऽसौ तपति ।१७। एतमेव तत् प्रीणन्ति⁵ ।१८। ⁶⁻अथ या बहूनां संनिव-
पनीयोत्था संभरणीया संकस्य दीक्षिष्यमाणस्य भवति⁶⁻ ।१९। ते पुरस्तादेव दीक्षाप्रसवान्⁷
कल्पयन्ते⁸ ।२०। तैषस्यामावास्याया एकाह उपरिष्टाद् दीक्षेरन् ।२१। माघस्य वेत्याहुः
।२२। तदुभयं व्युदितम्९ ।२३। तैषस्य त्वेवोदिततरमिव ।२४। त एतं त्रयोदशमधिचरं
मासमाप्नुवन्ति ।२५। एतावान् वै संवत्सरो यदेष त्रयोदशो मासः ।२६। तदत्रैव सर्वः
संवत्सर आप्तो भवति¹⁰ ।२७। स वै माघस्यामावास्यायामुपवसत्युदङ्ङावर्त्स्यन् ।२८।
उपेमे वसन्ति ।२९ ।१।
पादटिप्पण्यः (Footnotes):
¹ L. P. omit
² L. (var.) P. चरन्ति; L. P. add बहूनां चेष्यमाणानामेषा संनिवपनीयोत्था (P. था) संभरणीया सैवैकस्य दीक्षिष्यमाणस्य भवति ॥१॥
³⁻³ L. P. अथैतेन; L. (var.) as here
⁴ L. P. तस्य
⁵ IO. प्रीणाति
⁶⁻⁶ L. P. omit
⁷ L. (var.) ॰प्रसुवान्
⁸ L. (var.) कल्पन्ते
⁹ C. विदितं
¹⁰ L. P. Here ends Khaṇḍa 2
प्रायणीयेनातिरात्रेण¹ यक्ष्यमाणाः ।१। तदेनं प्रथममाप्नुवन्ति ।२। तं चतुर्विंशेनार-
भन्ते ।३। तदारम्भणीयस्यानारम्भणीयत्वम् ।४। स षण्मासानुदङ्ङेति ।५। तमूर्ध्वः षळ-
हैरनुयन्ति ।६। स षण्मासानुदङ्ङित्वा तिष्ठते दक्षिणतोऽवर्त्स्यन् ।७। उपेमे वसन्ति विषु-
वतीयैनाह्ना यक्ष्यमाणाः ।८। तदेनं द्वितीयमाप्नुवन्ति ।९। स षण्मासान् दक्षिणैति ।१०।
तमावृत्तः षळहैरनुयन्ति ।११। स षण्मासान् दक्षिणेत्वा तिष्ठत उदङ्ङावर्त्स्यन् ।१२।
उपेमे वसन्ति महाव्रतीयेनाह्ना यक्ष्यमाणाः ।१३। तदेनं तृतीयमाप्नुवन्ति ।१४। तं यत्
त्रिराप्नुवन्ति ।१५। त्रेधा विहितो वै संवत्सरः ।१६। संवत्सरस्यैवाप्त्यै ।१७। तदुतैषा-
भिगीयते² ।१८। अहोरात्राणि विदधदूर्णाका³ इव धीर्यः⁴ ।१९। षण्मासो दक्षिणादित्यः⁵
पादटिप्पण्यः (Footnotes):
¹ L. प्रायणीयेणा॰
² L. ॰षापि यज्ञगाथा॰; remarks that three MSS. have यज्ञगाथा on the margin; EM. ॰षाभि यज्ञगाथा॰; P. ॰षापि गीयते
³ L. P. ॰र्णावा
⁴ L. (var.) जूर्यः
⁵ L. P. ॰णा नित्यः; L. (var.) as here
XIX, 2, २०-३, २७ (अग्निचयनम्, पृष्ठम् ९१)
षळुदङ्ङेति⁶ सूर्य इति ।२०। षड्ढ्येष मासानुदङ्ङेति⁷ ।२१। षड् दक्षिणा⁴ ।२२। अथै-
तामग्निचित्यायां पञ्चहविषं दीक्षणीयामिष्टिमेके तन्वते९ ।२३। पाङ्क्तो वै यज्ञो यज्ञस्यै-
वाप्त्यै ।२४। अथैतामातिथ्यां पञ्चहविषमेवेष्टिमेके तन्वते९ ।२५। पाङ्क्तो वै यज्ञो यज्ञ-
स्यैवाप्त्यै ।२६। अथैता बह्वग्नीरन्वाह ।२७। बहून् ह्यग्नीन् प्रणयन्ति ।२८। ¹⁰⁻तस्माद्
बह्वग्नीरन्वाह⁻¹⁰ ।२९। ता वै चतस्रो भवन्ति ।३०। चतुष्टयं वा इदं सर्वम् ।३१। अस्यैव
सर्वस्याप्त्यै ।३२। त्रिः प्रथमया त्रिरुत्तमयाऽहो संपद्यन्ते ।३३। अष्टाक्षरा गायत्री ।३४।
गायत्रो वा अग्निर्गोर्यायत्रच्छन्दाः ।३५। स्वेनैव तच्छन्दसाग्नीन् प्रणयन्ति ।३६। ¹⁰⁻ता वा
उपांशु भवन्ति ।३७। रेतःसिक्तिर्वा अग्निचित्या ।३८। उपांशु वै रेतः सिच्यते ।३९।
अभिरूपा भवन्ति ।४०। यद् यज्ञेऽभिरूपं तत् समृद्धं यज्ञस्यैव समृद्धयै⁻¹⁰ ।४१। अथैनं¹¹
चिन्वन्ति यावदहं कामयन्ते ।४२। अथैनं¹² संचितं सामभिः परिष्टुवन्ति ।४३ ।॥२॥
पादटिप्पण्यः (Footnotes):
⁶ L. (var.) ॰डुदगेति
⁷ L. P. उदङ् मासानैति
⁸ L. P. add तद्वै न तस्मिन् काले दीक्षेरन्नागतं सस्यं भवति दहरकाओषधयि भवन्ति संवेपमाना अवमुष्यादुदायन्ति तस्मादत्र न दीक्षेरंश्चैत्रस्यामावास्याया एकाह उपरिष्टाद्दीक्षेरन्नागतं सस्यं भवति महान्त्यहानि भवन्त्यसंवेपमाना अवमुष्यादुदायन्ति तस्मादेतत्स्थितम् ॥३॥
⁹ L. P. add पञ्चपदा पङ्क्तिः
¹⁰⁻¹⁰ L. P. omit
¹¹ L. P. अथ
¹² L. P. अथैतं
अथ होतारमाहुरग्न्युक्थमनुशंसैति¹ ।१। रुद्रो ह वा एष देवानामाशान्तः संचितो भवति
।२। तमवैतच्छमयन्ति² ।३। निरुक्तं वैश्वानरं यजति ।४। निरुक्तो ह्येष तदा भवति यदा-
ग्नीन् प्रणयन्ति³ ।५। अथात ऊर्ध्वमेकाहिकं कर्म ।६। हविर्धानयोः प्रवर्तनमग्नीषोमयोः
प्रणयनमग्नीषोमीयः पशुस्तस्योक्तं ब्राह्मणम् ।७। अथाग्नीषोमीयस्य पशुपुरोडाशमन्वाञ्चि
देवसूम्यो हवींषि निर्वपन्ति ।८। एता ह वै देवताः सवानामीशते ।९। ता अत्र प्रीणन्ति
।१०। ता एभ्यः⁴ प्रीताः सवान्⁵ प्रस्रवन्ति ।११। ⁶⁻तस्माद् देवस्वः ।१२। ता-⁶ वा अष्टौ
भवन्ति ।१३। एताभिर्वै देवाः सर्वा अष्टीराप्नुवन् ।१४। तथो एवैतद् यजमाना एता-
भिरेव सर्वा अष्टीरश्नुवते ।१५। अत्र हेके सर्वपृष्ठायै हवींषि निर्वपन्ति ।१६। सर्वं वा अग्नि-
चित्या ।१७। सर्वेण सर्वमाप्नवामेति ।१८। तानि वै दश हवींषि भवन्ति ।१९। दशाक्षरिणी
विराट् ।२०। श्रीर्विराळ्नान्नाद्यम् ।२१। श्रियो विराजोऽन्नाद्यस्योपाप्त्यै ।२२। अथ सुन्वन्ति
यावदहं कामयन्ते ।२३। अथाग्नूबन्ध्यस्य वपायां संस्थितायां त्वाष्ट्रेण पशुना चरन्ति ।२४।
रेतःसिक्तिर्वै त्वाष्ट्रः ।२५। पत्नीशाले चरन्ति ।२६। पत्नीषु वै रेतः सिच्यते ।२७। उपांशु