कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 49, कुल 114 में से
संदर्भ में पढ़ें[Page Header: देवयाज्ञिकभाष्यसमेतम् । ४३]
न याथाकाम्यमित्यवगम्यते । तथाहि—“कथमेषां चातुर्मास्यान्यन्तरितानि भव-
न्तीति पयस्ययेति ब्रूयात्” इति । यद्यवश्यमनुष्ठेयं तस्यैव लोपशङ्कायाः करणा-
न्तरेणानुग्रह उपपद्यते नेच्छयानुष्ठेयस्य ।
अपरे तु “दर्शनाच्च” इत्यमुं हेतुमग्निहोत्रादिषु सर्वत्र योजयन्ति । यतः
सर्वत्र श्रूयते । “कथमेषामग्निहोत्रमनन्तरितं भवतीति व्रतेनेति ब्रूयात्” इति
“कथमेषां पौर्णमासीꣳ हविः” इत्यादि । “कथमेषाꣳ सोमोऽनन्तरितो भवति”
इत्यन्तम् । यतः सर्वत्र करणान्तरेणानुग्रहो दृश्यते ॥१५॥
एवं सिद्धान्तितेऽन्तरा पूर्वपक्षमाह—
नोत्सर्गात् ॥ १ । २ । १६ ॥
चातुर्मास्येषु न याथाकाम्यमिति यदुक्तम्, तन्न; किन्तु तत्रापि याथाका-
म्यमेव । न नित्यत्वम् । कुतः ? उत्सर्गयोगात् । यतश्चातुर्मास्यानामुत्सर्गयोगोऽ-
स्ति । उत्सर्गेण योगः सम्बन्धयोगः अस्ति तु यजमानस्येति । यदि हि चातुर्मा-
स्यानि नित्यानि भवेयुस्तदोत्सर्गयोगो न स्यात् । * अस्ति च । अतोऽत्रापि
याथाकाम्यमेव । न नित्यत्वमिति ॥१६॥
एवं पूर्वपक्षिते सिद्धान्तं दृढयति—
स्यात् त्रिꣳशद्वत् ॥ १ । २ । १७ ॥
चातुर्मास्यानां नित्यत्वेऽप्युत्सर्गयोगः स्यात् भवेत् । किंवत् ? त्रिंशद्वत् ।
यथा दर्शपूर्णमासयोस्त्रिंशद्वर्षानन्तरमुत्सर्गः श्रुतोऽस्ति, नित्यत्वं च । तयोरसन्दिग्धं
विद्यत एव । तथाहि—“ये दर्शपूर्णमासाभ्यां यजन्ते” इति प्रकृत्यैतदुच्यते—
“तस्मात्त्रिꣳ शतमेव वर्षाणि यजेत” इति । एवमत्रापि वचनादुत्सर्गयोगोऽपि
वैकल्पिको भविष्यति । नित्यत्वं च । तस्माच्चातुर्मास्यानामपि नित्यत्वम् । अत ए-
ष्वपि न याथाकाम्यमिति सिद्धम् ।
अथवा एवं योजना—उत्सर्गयोगे सत्यपि चातुर्मास्यानां नित्यत्वं स्यात्।
अपि च यदवश्यं कर्तव्यं तन्नित्यमित्युच्यते ॥१७॥
अथेदं विचार्यते—द्विप्रकारं कर्म, नित्यं काम्यं च । तत्र नित्यं प्रकृत्येदं
- “इति नूत्सृजमानस्य” इति कर्कभाष्ये श्रुतिरुपन्यस्यते ।