कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 50, कुल 114 में से
संदर्भ में पढ़ेंHere is the complete text transcribed from the image in pure Unicode Devanagari, following the original lineation:
४४ कात्यायनश्रौतसूत्रम् ।
विचार्यते, किं सर्वाङ्गोपेतं कर्तव्यम्, उत यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिर-
ङ्गैरुपेतमिति । किं तावत्प्राप्तम् ? सर्वाङ्गोपेतमेव कर्तव्यमिति । कुतः ? भावनां-
शस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फलत्वात्; अन्यथाऽङ्गाम्ना-
नस्यैव वैयर्थ्यापत्तेः । तस्मात्सर्वाङ्गोपेतमेव कर्तव्यमित्येवं प्राप्त आह-
( नित्यं कर्म यथाशक्ति सगुणं कर्तव्यम् )
विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदात् ॥ १ । २ । १८ ॥
नित्ये कर्मणि, अग्निहोत्रदर्शपूर्णमासादिके विगुणेऽपि अङ्गहीनेऽपि कृते
फलनिर्वृत्तिः शब्दात् । यथा-दर्शपूर्णमासयोस्त्रिंशद्वर्षानन्तरमुत्सर्गयोगे सत्यपि
नित्यत्वमविप्रतिपन्नं विद्यते। एवमिहापीति निर्वृतिः प्रत्यवायपरिहाररूपफलस्य
निष्पत्त्यर्थः । अङ्गप्रधानभेदात् । यतोऽङ्गानि प्रधानानि च भिन्नानि । नित्येषु
चेति कर्तव्यतैव नास्ति, कुतस्तत्साकल्यम् । कुतः ? इतिकर्तव्यता नास्ति, अपू-
र्वाभावात् । अपूर्वमहिता हीतिकर्तव्यता, सा च तस्मिन्नसति भवितुमर्हति । कथ-
मपूर्वभावः फलाभावात् । कालान्तरभाविफलाप्त्यर्थं ह्यपूर्वं कल्प्यम् । तच्चासति
फले कल्पयितुं न शक्यते । तस्मान्नित्येषु यागस्यैव भाव्यत्वेन फलस्य सम्ब-
न्धः । तस्मात्पौर्णमास्याममावास्यायां चाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येताव-
दुपदिष्यते । तेनादृष्टार्थानि यान्यङ्गानि सन्निपत्योपकारकाणि यैर्विना प्रधान-
भूतयागनिष्पत्तिर्न भवति, अन्यथोपदिष्टेत, अतश्च तावद्भिरुपेतं प्रधानं
कर्तव्यम् । नाङ्गानि । अङ्गाम्नानं तु काम्यप्रयोगार्थम् । अतोऽग्निकालपुरोडाशमा-
त्रमादरणीयम् । अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति ।
कथं तर्हि, निष्फले पुरुषस्य प्रवृत्तिरिति चेत्; उच्यते---प्रत्यवायानुत्प-
त्यर्था प्रवृत्तिर्न तु फलार्था । विहिताकरणाद्धि प्रत्यवायः स्मर्यते “ अकुर्वन्
विहितं कर्म प्रायश्चित्तीयते नरः ” इति । अतो नित्यकर्मणो निष्फलत्वादपूर्वा-
भावादितिकर्तव्या नास्तीति हीनाङ्गस्यैव प्रयोग इति केचिदिति सिद्धान्तः ।
तदेतन्नोपपद्यते । कथम् ? भावनातो हि तिस्र आकाङ्क्षा जायन्ते, केन,
किम्, कथमिति । तत्र कथमितीतिकर्तव्यताकाङ्क्षा नित्येऽप्यस्ति । तस्मादत्रा-
प्यस्तीतिकर्तव्यता । सत्यम्, अस्त्येवेहाप्याकाङ्क्षात्रयम् । तथापि किमाकाङ्-
क्षायाः समानपदोपात्तेन यागेनैव पूरणात्तन्निवृत्त्युपयोगिन्येवेतिकर्तव्यता कथ-