सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 297, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 297

१६८ कथासरित्सागर
इति वाङ्‍ मामकी¹ तेषां समुद्योगं न्यवारयत्।
ततः प्रतीक्षमाणास्ते तस्थुस्तत्रैव भूभुजः ॥७६॥
अत्रान्तरे च पाताले तस्मिन् देवकुले स्थितम्।
सर्वैर्वृत्तमवोचत्समेव चन्द्रप्रभं मयः ॥७७॥
राजन्नेकमना भूत्वा शृण्विदानीमनुत्तमम्।
उपदेक्ष्यामि ते योगमन्यदेहप्रवेशदम् ॥७८॥
इत्युक्तवाख्याय सांख्यं च योगं च सरहस्यकम्।
युक्तिं देहान्तरावेशे तस्मादुपदिदेश सः ॥७९॥
जगाद च स योगीन्द्र सैषा सिद्धिरियं च तत्।
ज्ञानं स्वातन्त्र्यमैश्वर्यमणिमादिनिकेतनम् ॥८०॥
अत्रैश्वर्ये स्थिता मोक्षं न वाञ्छन्ति सुरेश्वराः।
एतदर्थं जपतपःक्लेशम येऽपि कुर्वते ॥८१॥
सम्प्राप्तमपि नेच्छन्ति स्वर्गभोगं महाशयाः।
तथा च शृणुतामत्र कथां वः कथयाम्यहम् ॥८२॥
कालनाम्नो ब्राह्मणस्य कथा
आसीत्कोऽपि पुराकल्पे कालो नाम महाद्विजः।
स गत्वा पुष्करे तीर्थे जपं चक्रे दिवानिशम् ॥८३॥
जपतस्तस्य तत्रागाद्दिव्यं वर्षशतद्वयम्।
ततोऽस्य शिरसोऽच्छिद्रमचिराग्निरभून्महत् ॥८४॥
येन सूर्यायुतेनेव प्रोद्गतेनाम्बरे गतिः।
सिद्धादीनां निरुद्धाभूज्जज्वाल च जगत्त्रयम् ॥८५॥
ब्रह्मन् यस्ते वरोऽभीष्टस्तं गृहाण ज्वलत्यमी।
लोकास्तद्वदिपस्त्यूचुर्बहवेन्द्राद्या उपेत्य तम् ॥८६॥
जपादन्धत्र मा भून्मे रतिरित्थेष एव मे।
वरो नान्यद्वृणे किञ्चिदिति तान् प्रत्युवाच सः ॥८७॥
निर्बन्धं तेषु कुर्वत्सु ततो गत्वापि दूरतः।
उत्तरे हिमवत्पार्श्वे जपन्नासीत्स जापकः ॥८८॥
१ मामकी वाक् = आकाशवाणी।