कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 567, कुल 876 में से
संदर्भ में पढ़ें५२ कथासरित्सागर
तस्मिन् समुद्रदत्ताख्यमुत्पलद्वीपयायिनम्।
अविश्य वणिजं तेन सह सख्यं चकार सः॥३९॥
तदीयं यानपात्रं च समं समाधिरुह्य सः।
तत्प्रीतिपूर्णपाथेयः प्रतस्थेऽम्बुधिवर्त्मना ॥४०॥
ततोऽन्यदेश गन्तव्ये समुत्तस्थावशक्तिकम्।
काले विद्युल्लसज्जिह्वो गर्जज्जलधराक्षसः ॥४१॥
क्षुभ्यन्नुद्यम्य पाषाणानूरूनप्यवपातयन् ।
ववौ विधेरिवाऽरम्भः प्रचण्डश्च प्रभञ्जनः ॥४२॥
वाताहताश्च जलभूदतिष्ठन्महोर्मयः।
आश्लेषाभिभवक्रोधादिव क्षमाः सपक्षकः ॥४३॥
ययौ च तत्प्रवहणं क्षणमूर्ध्वमधः क्षणम्।
उच्छ्रायपातपर्य्याय¹ दक्षयद्वनितामिव ॥४४॥
क्षणान्तरं च वणिजामाक्रन्दस्तीव्रपूरितम्।
भरादिव लघूत्पत्य वहनं सममज्जयत् ॥४५॥
मग्ने च तस्मिंस्तत्स्वामी स बणिक्पतितोऽम्बुधौ।
तीर्णश्च फलकास्तम्बं प्राप्यान्यद् वहनं चिरात् ॥४६॥
शक्तिदेवः पतंस्तं सु तं व्यात्तमुखकन्दरः।
अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ॥४७॥
स च मत्स्योऽब्धिमध्येन तत्काल स्वच्छया चरन्।
उत्पलद्वीपनिकटं जगाम विधियोगतः ॥४८॥
तत्र तस्यव कैवर्त्तपतेः सत्यव्रतस्य सः।
शफरग्राहिमितृत्यैः प्राप्य दैवादगृह्यत ॥४९॥
ते च तं सुमहाकायं निन्युराकृष्य कौतुकात्।
सर्वेष धीवरास्तस्य निजस्य स्वामिनोऽन्तिकम् ॥५०॥
सोऽपि तं तादृशं दृष्ट्वा तैरेव सकुतूहलः।
पाठीनं पाटयामास मुख्यैः सत्यव्रतो निजैः ॥५१॥
पाटितस्योदराञ्जीवञ्छक्तिदेवोऽथ तस्य सः।
मनुभूतापराश्चर्य्यगर्भवाशो विनिर्ययौ ॥५२॥
१ कर्मणित्पर्य्यः