सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 99, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 99

९२ ॥ काशिका ॥ २ । १ ॥
नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च
समासो भवति । भिन्नप्रवृत्तिनिमित्तस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः सामानाधिक-
रण्यम् । पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम् । पूर्वकालो ऽप-
रकालेन समस्यते । स्नातानुलिप्तः । कृतप्रतिकृतम् । दग्धप्ररूढम् । एकशाटी ।
एकभित्ता । सर्वदेवाः । सर्वमनुष्याः । जरत्सुस्ती । जरत्सृष्टिः । जरद्धस्तिः ।
पुराणान्नम् । पुराणावसथम् । नवान्नम् । नवावसथम् । केवलान्नम् । समाना-
धिकरणेनेति किम् । एकस्याः शाटी ॥
दिक्संख्ये संज्ञायाम् ॥ ५० ॥
समानाधिकरणेनेत्यापादसमाप्तेरनुवर्तते । दिवाचिनः शब्दाः संख्या
च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति,
संज्ञायां विषये । पूर्वेषुकामाशमी । अपरेषुकामाशमी । संख्या । पञ्चालाः ।
सप्तर्षयः । संज्ञायामिति किम् । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥
तद्धितार्थोत्तरपदसमाहारे च ॥ ५१ ॥
दिक्संख्ये इत्यनुवर्तते । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे
चाभिधेये दिक्संख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो
भवति । तद्धितार्थे तावत् । पूर्वस्यां शालायां भवः । दिक्पूर्वपदादसंज्ञायां
ञः । पौर्वशालः । आपरशालः । उत्तरपदे । पूर्वशालाप्रियः । अपरशालाप्रियः ।
समाहारे दिक्शब्दो न संभवति । संख्या तद्धितार्थे । पाञ्चनापितिः । पाञ्च-
कपालः । उत्तरपदे । पञ्चगवधनो, दशगवधनः । समाहारे । पञ्चफली ।
दशपूली । पञ्चकुमारी । दशकुमारी । स नपुंसकमिति नपुंसकत्वं, ह्रस्वो
नपुंसके प्रातिपदिकस्येति ह्रस्वत्वम् ॥
संख्यापूर्वो द्विगुः ॥ ५२ ॥
तद्धितार्थोत्तरपदसमाहारे चेत्यत्र यः संख्यापूर्वः समासः स द्विगुसंज्ञो
भवति । तद्धितार्थे तावत् । पञ्चसु कपालेषु संस्कृतः, पञ्चकपालो, दशक-
पालः । संस्कृतं भक्षा इतीहण्, तस्य द्विगोर्लुगनपत्ये इति लुक् । उत्तरपदे ।
पञ्चनावप्रियः । नावो द्विगोरिति समासान्तो भवति । समाह