सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 100, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 100

॥ काशिका ॥ २ ॥ १ ॥ ८३

खण्डसूचिः । निष्प्रतिभ इत्यर्थः । याज्ञिककितवः । अयञ्चयाजनतृष्णापरः ।
मीमांसकदुर्दुरुटः । नास्तिकः । कुत्सितानीति किम् । वैयाकरणचौरः ।
नह्यत्र वैयाकरणत्वं कुत्स्यते । कुत्सनैरिति किम् । कुत्सितो ब्राह्मणः ॥
पापाणके कुत्सितैः ॥ ५४ ॥
पापाणकशब्दौ कुत्सनाभिधायिनौ तयोः पूर्वेण समासे परनिपातः
प्राप्तः पूर्वनिपातार्थमिदमारभ्यते । पाप अणक एते सुबन्ते कुत्सितवचनैस्सह
समस्येते, तत्पुरुषश्च समासो भवति । पापनापितः । पापकुलालः । अणक-
नापितः । अणककुलालः ॥
उपमानानि सामान्यवचनैः ॥ ५५ ॥
उपमीयतेनेनेत्युपमानम् । उपमानवाचीनि सुबन्तानि सामान्यवचनैः
सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । उपमानोपमेययोः