सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 823, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 823

८२२ ॥ काशिका ॥ ८ ॥ ४ ॥
द्वौ यकारौ क्रमजस्तृतीयः । तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति । हल इति
किम् । अवम् । यमामिति किम् । अग्निः । यमोति किम् । शार्ङ्गम् ॥
झरो झरि सवर्णे ॥ ६५ ॥
हल इति वर्तते हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति
वान्यतरस्याम् । प्रतङ्मवत्त्समित्यत्र त्रयस्तकाराः । क्रमजश्चतुर्थः । तत्र मध्य-
मस्य मध्यमयोर्वा लोपो भवति । महत्छत्त्र इत्यत्र चत्वारस्तकाराः क्रमजः पञ्च-
मस्तत्र । मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति । महच्छब्दस्य ह्युप-
संख्यानसामर्थ्यादेव उपसर्गात्त इति तत्वं भवति । झर इति किम् । शार्ङ्गम् ।
झरीति किम् । प्रियपञ्च्चः । अल्लोपस्य च पूर्वत्रासिद्धे न स्थानिवदिति स्थानि-
वद्भावप्रतिषेधादत्र चकारस्य अकारे लोपः स्यात् । सवर्णेइति किम् । तर्त्ता ।
तर्तुम् । तर्त्तव्यम् । सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति । सव-
र्णमात्रे लोपो विज्ञायते । तेन शिण्ठि पिण्ठि इति ठकारे ढकारस्य लोपो
भवति ॥
उदात्तादनुदात्तस्य स्वरितः ॥ ६६ ॥
उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति । गार्ग्यः । वात्स्यः ।
पचति । पठति । चास्य स्वरितस्यासिद्धत्त्वादनुदात्तं पदमेकवर्जमित्येतच्च प्रव-
र्तते । तेनोदात्तस्वरितावुभावपि श्रूयेते ॥
नोदात्तस्वरितोदयमगार्य्यकाश्यपगालवानाम् ॥ ६७ ॥
उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति । पूर्वेण
प्राप्तः प्रतिषिध्यते । अगार्य्यकाश्यपगालवानां मतेन । उदात्त उदयो यस्मात्स
उदात्तोदयः । उदात्तपर इत्यर्थः । एवं स्वरितोदयः । उदात्तोदयस्तावत् ।
गार्ग्यस्तत्र । वात्स्यस्तत्र । तत्रशब्द आद्युदात्तः । तस्मिन्नुदात्ते परतो
गार्ग्यशब्दः स्वरितो न भवति । स्वरितोदयः । गार्ग्यः क्व । वात्स्यः
क्व । क्वशब्दः स्वरितः तस्मिन्परतो ऽनुदात्तः स्वरितो न भवति । अगा-
र्य्यकाश्यपगालवानामिति किम् । गार्ग्यस्तत्र । गार्ग्यः क्व । तेषां हि मतेन
स्वरितो भवत्येव । उदात्तपरस्येति वक्तव्यउदयग्रहणं मङ्गलार्थम् । अनेका-
चार्य्यसंकीर्त्तनं पूजार्थम् ॥
अ अ इति ॥ ६८ ॥
एकोऽत्र विवृतो ऽपरः संवृतस्तत्र विवृतस्य संवृतः क्रियते । आकारो
विवृतः संवृतो भवति । वृक्षः । प्लक्षः । इह शास्त्रे कार्यार्थमकारो विवृतः