काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 822, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ४ ॥ ८२१
पदान्तस्यानुस्वारस्य ययि परतः वा परसवर्णोऽदेशो भवति । तङ् कथ-
ञ्चित्पत्तण्डयमानन् नभःस्वम्पुषुषो वधीत् । तं कथं चित्पचं डयमानं नभःस्वं
पुरुषवधीत् ॥
तोर्लि ॥ ६० ॥
तवर्गस्य लकारे परतः परसवर्णोऽदेशो भवति । अग्निचिल्लुनाति ।
सोमसुल्लुनाति । भवाँल्लुनाति । महाँल्लुनाति ॥
उदः स्थास्तम्भोः पूर्वस्य ॥ ६१ ॥
सवर्णे इति वर्तते । उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णोऽदेशो
भवति । उत्थाता । उत्थातुम् । उत्थातव्यम् । स्तम्भेः खल्वपि । उत्तम्भिता ।
उत्तम्भितुम् । उत्तम्भितव्यम् । स्थास्तम्भोरिति किम् । उत्स्रातः ॥ उदः पूर्व-
सवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम् ॥ * ॥ अये दूरमुत्कन्दः ॥ रोगे चेति वक्त-
व्यम् ॥ * ॥ उत्कन्दको नाम रोगः । कन्द्तेर्वा धात्वन्तरस्यैतद्रूपम् ॥
झयो होऽन्यतरस्याम् ॥ ६२ ॥
झय उत्तरस्य हकारस्य पूर्वसवर्णोऽदेशो भवति अन्यतरस्याम् । वाग्घ-
सति । वाग् हसति । स्वालट् ढसति । स्वालिड् हसति । अग्निचिद्धसति ।
अग्निचित् हसति । सोमसुद्धसति । सोमसुत् हसति । त्रिष्टुब्भसति । त्रिष्टुब्
हसति । झय इति किम् । प्राङ् हसति । भवान्हसति ॥
शश्छोऽटि ॥ ६३ ॥
झय इति वर्तते । अन्यतरस्यामिति च । झय उत्तरस्य शकारस्याटि
परतश्छकारादेशो भवति अन्यतरस्याम् । वाक्छेते । वाक् शेते । अग्निचि-
च्छेते । अग्निचित् शेते । सोमसुच्छेते । सोमसुत् शेते । खलिट् छेते । खलिड्
शेते । त्रिष्टुप्छेते । त्रिष्टुप् शेते ॥ छत्वममीति वक्तव्यम् ॥ * ॥ किं प्रयोज-
नम् । तच्छ्लोकेन तच्छ्मश्रुणेत्येवमर्थम् ॥
हलो यमां यमि लोपः ॥ ६४ ॥
अन्यतरस्यामिति वर्तते । हल उत्तराणां यमां यमि परतो लोपो भवति
अन्यतरस्याम् । शय्या इत्यत्र द्वौ यकारौ क्रमजस्तृतीयस्तत्र मध्यमस्य वा
लोपो भवति । शय्या । शय्य्या । अदितेरपत्यमादित्य इत्यत्र तकारात्पर
एको यकारो यणो मय इति क्रमजो द्वितीयः । तत्र मध्यमस्य वा लोपो भव-
ति । आदित्यो देवता अस्य स्थालीपाकस्येति चादित्यः । आदित्य इत्यत्रापि