सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 772, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 772

॥ काशिका ॥ ८ ॥ २ ॥ ७०१
ओदितश्च ॥ ४५ ॥
ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी ।
लग्नः । लग्नवान् । ओविजी । उद्विग्नः । उद्विग्नवान् । ओप्यायी वृद्धौ ।
आपीनः । आपीनवान् । स्वादय ओदितः । षूङ् । सूनः । सूनवान् । दूङ् ।
दूनः । दूनवान् । दीङ् । दीनः । दीनवान् । डीङ् । डीनः । डीनवान् ।
धीङ् । धीनः । धीनवान् । मीङ् । मीनः । मीनवान् । रीङ् । रीणः । रीण-
वान् । लीङ् । लीनः । लीनवान् । व्रीङ् । व्रीणः । व्रीणवान् ॥
क्षियो दीर्घात् ॥ ४६ ॥
क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । क्षीणाः
केशाः । क्षीणो जाल्मः । क्षीणस्तपस्वी । क्षियो निष्ठायामण्यदर्थे वा क्रोशदे-
न्ययोरिति दीर्घत्वं भवति । दीर्घादिति किम् । क्षित्तमसि मामेतेष्ठाः ।
क्षित्तमिति क्तप्रत्ययो भावे । भावश्च ण्यदर्थ इति दीर्घाभावः । ह्रस्वान्त-
स्यापि धात्वनुकरणस्य दृष्ट इयङा निर्देशः । क्षियो निष्ठायामण्यदर्थेत्यत्र
दीर्घग्रहणं क्रियते विपराभ्यां जेरित्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यवि-
वक्षितत्वाद् जिरूपसामान्यानुकरणं द्रष्टव्यम् ॥
श्यो ऽस्पर्शे ॥ ४७ ॥
श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति । शीनं घृतम् ।
शीनं मेदः । शीना वसा । अस्पर्शइति किम् । शीतं वर्तते । शीतो वायुः ।
शीतमुकमित्यत्र गुणभूतोपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं
भवति । गुणे च स्पर्शप्रतिषेधोयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव ॥
अञ्चो ऽनपादाने ॥ ४८ ॥
अञ्चतेरुत्तरपदस्य निष्ठातकारस्य नकारादेशो भवति न चेदपादानं तत्र
भवति । समञ्चौ शकुनेः पादौ । तस्मात्पशवो न्यञ्चाः । अनपादानइति किम् ।
उदक्तमुदकं कूपात् । व्यक्तमित्येतदङ्गे रूपम् ॥
दिवो ऽविजिगीषायाम् ॥ ४९ ॥
दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे ।
प्रद्यूनः । परिद्यूनः । अविजिगीषायामिति किम् । द्यूतं वर्तते । विजिगीषया
हि तत्राक्षपातनादि क्रियते ॥
निर्वाणो ऽवाते ॥ ५० ॥
निर्वाण इति निस्पूर्वाद्वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते ।

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 772, कुल 828 में से · SarvaKosh