सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 771, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 771

०९० ॥ काशिका ॥ ८ ॥ २ ॥
घित्वा । लब्धा । लब्धुम् । लब्धव्यम् । अलब्ध । अलब्धाः । दुह । दोग्धा । दोग्धुम् ।
दोग्धव्यम् । अदुग्ध । अदुग्धाः । लिह । लेढा । लेढुम् । लेढव्यम् । अलीढ । अलीढाः ।
बुध् । बोद्धा । बोद्धुम् । बोद्धव्यम् । अबुद्ध । अबुद्धा । अध इति किम् । धत्तः । धत्थः ॥
षढोः कः सि ॥ ४१ ॥
षकारढकारयोः ककारादेशो भवति सकारे परतः । षकारस्य । विष् ।
विवक्ष्यति । अविक्षत् । विवक्षति । ढकारस्य । लिह । लेक्ष्यति । अलेक्ष्यत् ।
लिलिक्षति । सीति किम् । पिनष्टि । लेढि ॥
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४२ ॥
रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति पूर्वस्य च
दकारस्य । रेफान्तातत्तावत् । आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । निगीर्णम् ।
अवगूर्णम् । दकारात् । भिन्नः । भिन्नवान् । छिन्नः । छिन्नवान् । रदाभ्यामिति
किम् । कृतः । कृतवान् । र इत्यत्र रश्रुतिसामान्यं नोपादीयते किं तर्हि व्यञ्ज-
नमात्रम् । रेफसामान्यनिर्देशेपि सति रेफात्परा याऽज्भक्तिस्तद्व्यवधानात्त्वं न
भवति । निष्ठेति किम् । कर्त्ता । हर्त्ता । त इति किम् । चरितम् । मुदितम् ।
पूर्वस्येति किम् । परस्य मा भूत् । भिन्नवद्ग्राम् । भिन्नवद्भिः । इह कृतस्यापत्यं
कार्तिरिरिति वृद्वेर्बहिरङ्गलक्षणाया असिद्धत्वात्तस्ये कर्त्तव्ये रेंफस्यासिद्धत्वम् ॥
संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥
संयोगादिर्यो धातुराकारान्तो यण्वान् तस्मादुत्तरस्य निष्ठातकारस्य नका-
रादेशो भवति । प्रद्राणः । प्रद्राणवान् । म्लानः । म्लानवान् । संयोगादेरिति किम् ।
यातः । यातवान् । आत इति किम् । च्युतः । च्युतवान् । प्लुतः । प्लुतवान् । धातो-
रिति किम् । निर्यातः । निर्वातः । यण्वत इति किम् । स्नातः । स्नातवान् ॥
ल्वादिभ्यः ॥ ४४ ॥
लूँञ् छेदने इत्येतत्प्रभृति वृ वरणे इति यावत् वृत्करणेन समापिता
ल्वादयो गृह्यन्ते । तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति । लूनः ।
लूनवान् । धूनः । धूनवान् । जीनः । जीनवान् ॥ ऋकारल्वादिभ्यः क्तिवि-
ष्ठावद्भवतीति वक्तव्यम् ॥ * ॥ कीर्णिः । गीर्णिः । शीर्णिः । लूनिः । पूनिः ॥
दुग्वोर्दीर्घश्चेति वक्तव्यम् ॥ * ॥ दु, आदूनः । गु, विगूनः ॥ पूञो विनाशइति
वक्तव्यम् ॥ * ॥ पुना यवाः । विनष्टा इत्यर्थः । विनाशइति किम् । पूतं
धान्यम् ॥ सिनोतेर्योसकर्मकर्त्तृकस्येति वक्तव्यम् ॥ * ॥ सिनो वासः स्वयमेव ।
वासकर्मकर्तृकस्येति किम् । सिता पाशेन सूकरी । वासोपि यदा कर्मैव
भवति न कर्म्मकर्त्ता तदा न भवति । सितो वासो देवदत्तेनेति ॥