काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 747, कुल 828 में से
संदर्भ में पढ़ेंपचति गोत्रम् । जल्पति २ गोत्रम् । ब्रुव । पचति ब्रुवम् । जल्पति ब्रुवम् ।
जल्पति २ ब्रुवम् । पचति २ ब्रुवम् । ब्रुवन्निति ब्रुवः कविपातनाद् वच्यादेशा-
भावश्च । गोत्र । ब्रुव । प्रवचन । प्रसङ्घन । प्रकथन । प्रत्ययन । प्रपञ्चन ।
प्राय । विचक्षण । अचक्षण । स्वाध्याय । भूयिष्ठ । नाम वा* । नामेत्येतद्वा
निहन्यते । पक्षे आद्युदात्तमेव भवति । पचति नाम । पठति नाम । तिङ् इति
किम् । कुत्सितं गोत्रम् । गोत्रादीनीति किम् । पचति पापम् । कुत्सनाभीक्ष्ण्ययो-
रिति किम् । खनति गोत्रं समेत्य कूपम् । कुत्सनाभीक्ष्णयोरिति पाठविशेषश्च
द्रष्टव्यम् । तेनान्यत्रापि गोत्रादिग्रहणेन कुत्सनाभीक्ष्णयोरेव कार्यं भवति ॥
तिङ्ङतिङः ॥ २८ ॥
तिङन्तं पदमतिङन्तात्परमनुदात्तं भवति । देवदत्तः पचति ।
यज्ञदत्तः पचति । तिङिति किम् । नीलमुत्पलम् । शुक्लं वस्त्रम् । अतिङः
इति किम् । भवति पचति ॥
न लुट् ॥ २९ ॥
पूर्वस्यातिप्रसक्ते प्रतिषेध आरभ्यते । लुट्न्तं तिङन्तं नानुदात्तं भवति । श्वः
कर्ता । श्वः कर्तारौ । मासेन कर्तारः । तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे
सति सवैतासिरेवोदात्तः । यत्र तु टिलोपस्तत्रोदात्तनिवृत्तिस्वरो भवति ॥
निपातैर्यद्यदिहन्तकुवित्नेच्चेच्चकच्चिद्यत्रयुक्तम् ॥ ३० ॥
नेति वर्तते । यत् यदि हन्त कुवित् नेत् चेत् चण कच्चित् यत्र इत्ये-
तैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति । यत्करोति । यत्पचति । यदि करोति ।
यदि पचति । हन्त करोति । हन्त पचति । कुवित्करोति । कुवित्पचति ।
नेत् । नेज्जिह्मायन्तो नरकं पताम । चेत् । स चेद्भुङ्क्ते । स चेदधीते । चण
किंबिशिष्टोयं चेदर्थे वर्तते । अयं च मरिष्यति । अयं चेन्मरिष्यतीत्यर्थः । समु-
च्चयादिषु तु यच्छब्दस्तेन योगेन विधिरयं न भवति । कच्चित् । कच्चि-
द्भुङ्क्ते । कच्चिदधीते । यत्र । यत्र भुङ्क्ते । यत्राधीते । निपातैरिति किम् ।
यत्कूजति शकटम् । गच्छत्कूजति शकटमित्यर्थः । इणः शतरि रूपमेतत् ।
युक्तमिति किम् । यत्र क्व च ते मनो दत्तं दधस उत्तरम् ॥
नह प्रत्यारम्भे ॥ ३१ ॥
नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति । चोदितस्याक-
र्मीरखे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते । नह भोक्ष्यसे । नहाध्ये-
ष्ससे । प्रत्यारम्भ इति किम् । नह वै तस्मिंश्च लोके दक्षिणामिच्छन्ति ॥
- प्रसङ्घन प्रत्ययन न्याय प्रपञ्च प्रचक्षण इत्येते पुस्तकान्तरे ऽत्र गणे ऽधिकाः ।