सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 734, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 734

॥ काशिका ॥ ७ ॥ ४ ॥ ७३३
द्विहल इति किम् । आट । आटतुः । आटुः । ऋकारैकदेशो रेफो हल्ग्रहणेन
गृह्यते । तेनेहापि द्विहलोऽङ्गस्य नुडागमो भवति । आनृधतुः । आनृधुः ॥
अश्नोतेश्च ॥ ७२ ॥
अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति । आनशे ।
आनशाते । आनशिरे । अश्नोतेरिति श्तिकरणनिर्देशो ऽश्नातेर्मा भूदिति ।
आश । आशतूः । आशुः ॥
भवतेरः ॥ ७३ ॥
भवतेरभ्यासस्याकारादेशो भवति लिटि परतः । बभूव । बभूवतुः ।
बभूवुः । बभूवे । भवतेरिति कर्तृनिर्देशादिह न भवति । अनुबभूवे कम्बलो
देवदत्तेन । लिटीत्येव । बुभूषति । बोभूयते ॥
ससूवेति निगमे ॥ ७४ ॥
ससूव इति निपात्यते । सूतेर्लिटि परस्मैपदं वुगागमो ऽभ्यासस्य चात्वं
निपात्यते । ससूव स्थविरं विपश्चिताम् । सुषुवे इति भाषायाम् ॥
निजां त्रयाणां गुणः श्लौ ॥ ७५ ॥
निजादीनां त्रयाणामभ्यासस्य गुणो भवति श्लौ सति । निजिर्-
नेनेक्ति । विजिर्, वेवेक्ति । विश्, वेवेष्टि । त्रिग्रहणमुत्तरार्थम् । एषां हि
वृत्करणं समाप्त्यर्थं पठ्यतएवेति । श्लाविति किम् । निनेज ॥
भृञामित् ॥ ७६ ॥
भृञादीनां त्रयाणामभ्यासस्येकारादेशो भवति श्लौ सति । भृञ् ।
बिभर्त्ति । माङ् । मिमीते । ओहाङ् । जिहीते । त्रयाणामित्येव । जहाति ।
श्लावित्येव । बभार ॥
ऋर्त्तिपिपर्त्योश्च ॥ ७७ ॥
ऋर्त्ति पिपर्त्ति इत्येतयोरभ्यासस्येकारादेशो भवति श्लौ । इयर्त्ति
धूमम् । पिपर्त्ति सोमम् ॥
बहुलं छन्दसि ॥ ७८ ॥
छन्दसि विषये ऽभ्यासस्य श्लौ बहुलमिकारादेशो भवति । पूषां
विवष्टि । वशेरेतद्रूपम् । तथा वचेः । जनिमा विवक्ति । सचेः । वत्सं न
माता सिषक्ति । जिघर्त्ति सोमम् । न च भवति । ददातीत्येवं ब्रूयात् । जज-
नमिन्द्रं माता यह्वीरं दधनदुन्निष्टा ॥
सन्यतः ॥ ७९ ॥