काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 733, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 733
७३२ ॥ काशिका ॥ ७ । ४ ॥
श्लौ द्वितीयैकवचने ऽभ्यासस्य रीगागमो निपात्यते । वरीवृजदिति वृजेः
शतरि श्लौ रीगागमो निपात्यते ऽभ्यासस्य । मर्मृजेति मृजेर्लेटि शपि अभ्यास-
स्य रुगागमो धातोश्च युगागमो निपात्यते । ततो मृजेर्वृद्धिर्न भवत्यलघूपध-
त्वात् । लघूपधगुणे प्राप्ते वृद्धिरारभ्यते । आगनीगन्तीति आङ्पूर्वस्य गमेर्लेटि
श्लौ अभ्यासस्य चुत्वाभावो नीगागमश्च निपात्यते । वक्ष्यन्ती वेदा गनीगन्ति
कर्णम् । इतिकरणमेवंविधानामन्येषामप्युपसंग्रहार्थम् ॥
उरत् ॥ ६६ ॥
ऋवर्णान्तस्याभ्यासस्याकारादेशो भवति । बवृते । बवृधे । नर्नर्ति ।
नरिर्नर्त्ति । नरीनर्त्ति । इत्येवमादावभ्यासविकारेषु अपवादो नोत्सर्गान्विधी-
न्बाधतइत्य