काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 728, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 728
॥ काशिका ॥ ७ ॥ ४ ॥ ७२७
दधातेर्हिः ॥ ४२ ॥
दधातेरङ्गस्य हात्ययमादेशो भवति तकारादौ क्ङिति प्रत्यये परतः ।
हितः । हितवान् । हित्वा ॥
जहातेश्च क्त्वि ॥ ४३ ॥
जहातेरङ्गस्य हीत्ययमादेशो भवति क्त्वाप्रत्यये परतः । हित्वा राज्यं
वनं गतः । हित्वा गच्छति । जहातेर्निर्देशाज्जिहीतेर्न भवति । हात्वा ॥
विभाषा छन्दसि ॥ ४४ ॥
जहातेरङ्गस्य विभाषा हीत्ययमादेशो भवति छन्दसि विषये क्त्वाप्र-
त्यये परतः । हित्वा शरीरं यातव्यम् । हात्वा * ॥
सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ४५ ॥
सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये
निपात्यन्ते । तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्त्वा-
प्रत्यये इत्त्वमिडागमो